________________
तथा वनस्पतिसूत्रं च, नवरं कालमनन्तमिति, अनन्तकायिकापेक्षमेतत्, प्रत्येक वनस्पतीनां काय स्थितेरसङ्ख्या तत्वात्, | तथा दुष्टोऽन्तोऽस्येति दुरन्तस्तम्, इदमपि साधारणापेक्षयैव, ते ह्यत्यन्ताल्पबोधतया तत उद्धृता अपि न प्रायो विशिष्टं मानुषादिभवमाशुवन्ति । इह च 'कालं सङ्ख्यातीत 'मिति विशेषानभिधानेऽप्यसङ्ख्योत्सर्पिण्यव सर्पिणीमानम्, 'अनन्त' | मिति चानन्तोत्सर्पिण्यव सर्पिणीप्रमाणमित्यवगन्तव्यं, यत आगमः - "अस्संखोसप्पिणिउस्सप्पिणीउ एगेंदियाण उचउहं । ता चेव ऊ अणंता वणस्सतीए उ बोद्धवा ॥ १ ॥ " तथा द्वे - द्विसङ्घये इन्द्रिये - स्पर्शनरसनाख्ये येषां ते | द्वीन्द्रियाः— कृम्यादयः, तत्कायमतिगत उत्कर्षतो जीवस्तु संवसेत् कालं सङ्खयेयसजूज्ञितं - सङ्ख्यातवर्षसहस्रात्मकम्, | अतः समयमपि गौतम ! मा प्रमादीः ॥ एवं त्रीन्द्रियचतुरिन्द्रियसूत्रे अपि भावनीये ॥ तथा पञ्च इन्द्रियाणि – स्पशेनादीनि येषां ते तथा, ते चोत्तरत्र देवनारकयोरभिधानात् मनुष्यत्वस्य दुर्लभत्वेन प्रक्रान्तत्वात्तिर्यञ्च एव गृह्यते, | तत्कायमतिगतः, तत्कायोत्पन्न इत्यर्थः, उत्कर्षतो जीवस्तु संवसेत् सप्त वा अष्ट वा सप्ताष्टानि तानि च तानि भवग्रहणानि च - जन्मोपादानानि सप्ताष्टभवग्रहणानि यतः अतः समयमपि गौतम ! मा प्रमादीः । तथा देवान्नैरयिकांच अतिगत उत्कर्षतो जीवस्तु संवसेत् एकैकभवग्रहणं, ततः परमवश्यं नरेषु तिर्यक्षु वोत्पादात् । यद्वा 'उक्कोसंति' | उत्कृष्यते तदन्येभ्य इत्युत्कर्षस्तमुत्कृष्टं कालं - त्रयस्त्रिंशत्सागरोपममानम्, 'एगेगभवग्गहणं ति अपेर्गम्यमानत्वादेकै
Jain Education national
For Private & Personal Use Only
jainelibrary.org