________________
ACCCCCCCCAKAR
वशवर्तिनो जन्तव इति भवः तत्र तिष्ठन्ति भवस्थाः ते च ते जीवाश्चेति विशेषणसमासः, म्रियन्ते, आवीचिकमवी-1 |चिकं वा मरणमाश्रियेति शेषः, यद्वा विभक्तिव्यत्ययादावीचिकेन मरणेन म्रियन्ते 'सदा सर्वकालं, 'ओहिं च'त्ति | दाअवधिमरणं, चशब्दो भिन्नक्रमः, ततश्च 'आइयंतिय'न्ति आत्यन्तिकमरणं च, द्वे अप्येते 'भजनया' विकल्पनया,
किमुक्तं भवति ?-यद्यप्यावीचिमरणवत् अवध्यात्यन्तिकमरणे अपि चतसृष्वपि गतिषु सम्भवतः तथाऽप्यायुःक्षयसमय एव तयोः सम्भवान्न सदाभावः, अत आवीचिकमरणमेव सदेत्युक्तम् , अनेनावीचिमरणस्य सदाभावेन लोके मरणत्वेनाप्रसिद्धिः अविवक्षायां हेतुरुक्त इति भावनीयं । सम्प्रति ‘दोन्निवि' इत्यादि व्यक्तीकरोति-'ओहिं च आइयंतिय'त्ति, चशब्दो भिन्नक्रमः, ततोऽवधिमरणमात्यन्तिकमरणं च, 'बालं' बालमरणं च, तथेत्युत्तरभेदापेक्षया समुच्चये, 'पण्डितं च' पण्डितमरणं, 'मिश्रं च' बालपण्डितमरणं च, चशब्दाद्वैहायसगृध्रपृष्ठमरणे, भक्तपरिक्षेङ्गिनीपादपोपगमनानि च, 'अन्योऽन्येन' परस्परेण विरुध्यन्ते, युगपदसम्भवात् ,तत्र चाविरतस्यावध्यात्यन्तिकमरणयोः अन्यतरद्वालमरणं चेति द्वे, तद्भवमरणेन सह त्रीणि, वशार्तेन चत्वारि, कथञ्चिदात्मघाते च वैहायसगृध्रपृष्ठयोरन्यतरेण पञ्च, आहवलन्मरणान्तःशल्यमरणे अपि बालमरणभेदावेव, यत आगमः-"बालमरणे दुवालसविहे पन्नते, तंजहा-वलायमरणे
१ बालमरणं द्वादशविधं प्रज्ञप्तं, तद्यथा-वलन्मरणं
642
Jain Education International
For Private
Personal use only
www.jainelibrary.org