________________
Jain Education
'भेदे' विनाशे द्वावप्यावां 'तुल्यौ' मुक्तिपदप्रात्या समौ 'भविष्यावः' इति मा त्वमधृतिं कृथा इति भावः, 'यथा' येन प्रकारेण यथा 'मन्ने'त्ति आर्यत्वात् पुरुषव्यत्ययः, ततो मन्यसे त्वम् एनं ज्ञानावाप्तिलक्षणम् 'अर्थ' वस्तु 'वयं' जानीमः | अवबुध्यामहे, किंविशिष्टाः सन्तः ? इत्याह- क्षीणः - पुनर्भवाभावतः संसारो येषां ते क्षीणसंसाराः, तेन प्रकारेण तथा, व्यवच्छेदफलत्वात् तथैव, किमित्याह - 'मन्ने' त्ति प्राग्वत्, मन्यसे 'एनमर्थम्' अनन्तरोक्तं 'विमानवासिनोऽपि ' | देवा 'जानन्ति' अवबुध्यन्ते, एवं च यथा क्षीणसंसारा जानन्ति तथा विमानवासिनोऽपि जानन्तीत्याशयवतः | क्षीणसंसारिणां च परिज्ञानं प्रति साम्यमभिमतमित्यहो तव विवेकितेत्युपालब्धः । तथा 'जाणगपुच्छं' ति ज्ञायक| पृच्छया पृच्छति, न हि तस्य भगवतः समस्तज्ञेयविषयविज्ञानचक्षुषः क्वचिदविज्ञानमस्ति, किन्तु गौतमं प्रतिबोधय|न्नित्यमुपालभते, तथा यथा किम् ? - दीव्यन्ति-क्रीडन्ति देवाः तेषां वचनं वचो 'गिज्झं 'ति ग्राह्यमुपादेयम्, 'आतो' | ( ग्रन्थानं ८००० ) त्ति आर्यत्वादाहोखित्, जिनानां वराः - प्रधानाः जिनवराः य उत्पन्न केवलास्तीर्थकृतस्तेषां ?, तद| नेनैकम स्मत्परिज्ञानस्य देव परिज्ञानस्य च साम्यापादनम्, अपरं तु साम्ये सत्यपि 'देहस्स य भेयंमी दोण्णिवि तुला | भविस्सामो'त्ति अस्मद्वचनतः शतशोऽपि श्रुतान्न विनिश्चयमपि विहितवान्, देववचनात्तु सकृदण्याकर्णितात् तथेति प्रतिपद्याष्टापदं प्रति प्रयात इत्यहो ते मोहविजृम्भितमित्युक्तं भवति । श्रुत्वा तदुपालम्भवचो भगवतः सम्बन्धि 'मि|च्छाचारस्स' त्ति आर्षत्वान्मिथ्याचाराद् उक्तरूपाद्गम्यमानत्वात् प्रतिक्रमितुम् 'उपतिष्ठति' उद्यच्छति । 'तन्निश्रये ति
tional
For Private & Personal Use Only
dinelibrary.org