SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य.|४|संवासयति, कोऽर्थः ?-रात्रिं दिवं चावस्थापयति, नोऽसाधु संहरणादिनाऽऽनीतमपि 'किल' इति परोक्षाप्तवाद-13/ द्रुमपत्रकसूचकः, 'अर्थ' इत्युपन्यासे सिद्धोपलक्षितः पर्वतः सिद्धपर्वतः 'तास्थ्यात्तद्वयपदेश' इति तदधिष्ठायकदेवताविशेष बृहद्वृत्तिः । एवोक्तः, यद्वा तत्तीर्थानुभाव एवायं यदसाधोस्तत्रावस्थानमेव न सम्पद्यते, तथा च 'चरमशरीरः साधुः आरोह मध्ययनं. ॥३२२॥ ती'त्यत्र पदप्रचारेणेति गम्यते, 'उदाहरणं' कथनं 'कासी'त्ति अकार्षीद्, अनेन चैवंविधदेवप्रवादोत्थानकारणमुक्तं 'घेत्तूण पुंडरीयम्' इत्यादिना च प्रसङ्गागतं वैरस्वामिजन्मोक्तं, तथा 'तं पासिऊण इहिन्ति तामिति-प्रतीतामेव भगवति जङ्घाचारणरूपलब्धिरूपां, तथा 'तिवग्गावि'त्ति त्रयो वर्गा येषां ते त्रिवर्गाः, तेऽपि प्रक्रमादिन्नकोण्डिन्यशैवलिनस्त्रयोऽपि, नैको द्वौ वेत्यपिशब्दार्थः, अणगार'त्ति अविद्यमानगृहाः,ते च तापसादयोऽपि स्युरत आह-प्रकर्षण ब्रजिता-मिथ्यात्वादिभ्यो विनिर्गताः प्रव्रजिताः, तथा 'एगस्स खीरभोयणहेउ'त्ति क्षीरान्नभोजनमेव विशुद्धाध्यवसायविशेषोत्पत्तिनिवन्धनतया हेतुः-कारणं क्षीरभोजनहेतुः, मयूरव्यंसकादित्वात् समासः, तमाश्रित्येति शेषः, 'णाणुप्पय'त्ति ज्ञानस्योत्पादनमुत्पत् 'सम्पदादित्वात् किम्' (पा०३-३-९४ )ज्ञानोत्पत् , तथा 'चिरसंसहन्ति चिरंप्रभूतकालं संसृष्टः-स्वखाम्यादिसम्बन्धेन सम्बन्धो यस्तं, 'चिरपरिचितः' सहवासनादिना स पूर्वो यस्तम् , उभयत्र ॥३२२॥ |विस्पष्टं पटुर्विस्पष्टपटुरितिवत् सह सुपेत्यत्र सुपेति योगविभागात् समासः, चिरमनुगतमभिप्रायानुवर्तिनमात्मानमिपति शेषः, 'ममेयात्मनिर्देशः, ततः प्रभूतमोहनीयाच्छादिततया न ते ज्ञानोत्पत्तिरित्यभिप्रायः 'देहस्य तु' शरीरस्य Jain Education International For Privale & Personal Use Only www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy