SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ कामाः-मनोज्ञशब्दादयः, यथा हि शल्यमन्तश्चलद्विविधवाधाविधायि तथैतेऽपि, तत्त्वत एषामपि सदा बाधाविधायित्वात् , तथा वेवेष्टि-व्याप्नोतीति विषं-तालपुटादि, विषमिव विषं कामाः, यथैव हि तदुपभुज्यमानं मधुरमित्यापातसुन्दरमिवाऽऽभाति, अथ च परिणतावतिदारुणमेवमेतेऽपि कामाः, तथा कामाः आस्यो-दंष्ट्रास्तासु विषमस्येत्याशीविषस्तदुपमाः, यथा ह्ययमहरवलोक्यमानः स्फुरन्मणिफणाभूपित इति शोभन इव विभाव्यते, स्पर्शनादिभिरनुभूयमानश्च विनाशायैव भवति तथैतेऽपि कामाः, किंच-कामान् 'प्रार्थयमाना' अभिलपन्तोऽपिशब्दस्य लुप्तनिर्दिष्टत्वात् प्रार्थयमाना अपि 'अकामा' इष्यमाणकामाभावात् 'यान्ति'गच्छन्ति 'दुर्गति दुष्टां नरकादिगति, तदनेन न केवलं शल्यादिवदनुभूयमाना एवामी दोषकारिणः, किन्तु प्रार्थमाना अपीत्युक्तं भवति । तथा च-'यः सद्विवेको नासौ प्राप्तमप्राप्तकाङ्कया' इत्यादौ सद्विवेकत्वमनैकान्तिको हेतुः, न ह्ययमेकान्तः यथा प्राप्तमप्राप्तार्थे न परिहियते, प्राप्तस्याप्यपायहेतोः तदुच्छेदकाप्राप्त्यर्थ विवेकिभिः परिहियमाणत्वाद् , अनभ्युपगतोपालम्भश्चायं, मुमुक्षूणां क्वचिदाकाङ्क्षाया एवासम्भवात् , उक्तं हि-'मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः' इति सूत्रार्थः ॥ कथं पुनः कामान् ४ प्रार्थयमाना दुर्गतिं यान्ति ?, अत आह___अहे वयइ कोहेणं, माणेणं अहमा गई । माया गइपडिग्घाओ, लोहाओ दुहओ भयं ॥५४॥ व्याख्या-'अधो' नरकगतौ 'ब्रजति' गच्छति 'क्रोधेन' कोपेन, 'मानेन' अहङ्कारेण 'अधमा नीचा गतिः, भव in Educati on For Private & Personal use only l ibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy