________________
उत्तराध्य.
बृहद्वृत्तिः
॥३१७॥
अच्छेरगमब्भुदए, भोए जहित्तु पत्थिवा ! असंते कामे पत्थेसि, संकष्पेण विहम्मसि ॥ ५१ ॥ व्याख्या – 'अच्छेरगं' ति आश्चर्य वर्तते, यत् त्वमेवंविधोऽपि 'अन्भुद 'त्ति अद्भुतकान् आश्चर्यरूपान् 'भोगान्' कामान् 'जहासि' त्यजसि, पठ्यते च - 'चयसि 'त्ति, 'पार्थिव !' पृथिवीपते !, पाठान्तरतश्च क्षत्रिय !, अथवा 'अच्भुयए'त्ति अभ्युदये, ततश्च यदभ्युदयेऽपि भोगांस्त्वं जहासि तदाश्चर्य वर्तते, तथा तत्यागतच 'असतः' अविद्यमानान् कामान् 'प्रार्थयसे' अभिलपसि यत्तदप्याश्चर्यमिति सम्बन्धः, अथवाऽधिकस्तवात्र दोषः, 'सङ्कल्पेन' उत्त | रोत्तराप्राप्तभोगाभिलाषरूपेण विकल्पेन 'विहन्यसे' विविधं वाध्यसे, एवंविधसङ्कल्पस्यापर्यवसितत्वाद्, उक्तं हि - "अमीषां स्थूलसूक्ष्माणामिन्द्रियार्थविधायिनाम् । शक्रादयोऽपि नो तृप्तिं, विशेषाणामुपागताः ॥ १ ॥ " यद्वा 'अच्छेरगमच्भुद 'त्ति मकारोऽलाक्षणिकः, ततश्च - आश्चर्याद्भुतयोरेकार्थत्वेऽप्युपादानमतिशयख्यापनार्थम् - अतिश याद्भुतान् भोगान् जहासि पार्थिव ! असतश्च कामान् प्रार्थयसि यत्तत्सङ्कल्पेनैव उक्तरूपेण विहन्यसे - वाध्यसे, कथं ह्यन्यथा विवेकिनस्तवैतत् सम्भवेत् ? । अनेन च यः सद्विवेको नासौ प्राप्तान् विषयानप्राप्ताकाङ्क्षया परिहरति, यथा ब्रह्मदत्तचक्रवर्त्यादिः, सद्विवेकश्च भवानित्यादिनीत्या हेतुकारणे सूचिते इति सूत्रार्थः ॥ तदनु 'एयं' ५२ सूत्रं प्राग्वत् । -
सल्लं कामा विसं कामा, कामा आसीविसोपमा । कामे पत्थमाणा, अकामा जंति दुग्गई ॥ ५३ ॥ व्याख्या - शलति - देहान्तश्चलतीति शल्यं - शरीरान्तः प्रविष्टं तोमरादि शल्यमित्र शल्यं, के ते ? - काम्यमानत्वात्
Jain Educatinational
For Private & Personal Use Only
नमिप्रत्र
ज्याध्य. ९
॥३१७॥
v.jainelibrary.org