________________
बृहद्वृत्तिः
उत्तराध्य. मिति एतावन्मानं कारणम् , अनयोस्तु पृथगुपादानं प्रतिपाद्यभेदतः साधनवाक्यवैचित्र्यसूचनार्थ, तथा चाह श्रुतके- नमिपत्रवली-'कत्थवि पंचावयवं दसहा वा सव्वहा ण पडिसिद्धं । ण य पुण सवं भण्णइ हंदी सवियारमक्खायं ॥१॥"
ज्याध्य.९ तथा-"जिणवयणं सिद्धं चेव भण्णती कत्थती उदाहरणं । आसज उ सोयारं हेऊवि कहिंचि वोत्तवो ॥२॥" ॥३०८॥ अथवाऽन्वयव्यतिरेकलक्षणो हेतुः, उपपत्तिमात्रं तु दृष्टान्तादिरहितं कारणं, यथा निरुपमसुखः सिद्धो ज्ञानानाबा
धप्रकर्षात् , अन्यत्र हि निरुपमसुखासम्भवात् नोदाहरणमस्ति, दृष्टान्तश्च प्रकृष्टमत्यादिज्ञानानाबाधाः परमसुखिनो ४ मुनय इति ज्ञानानाबाधप्रकर्षः निरुपमसुखत्वे हेतुरुच्यते, तथा च पूज्याः-"हेतू अणुगमवइरेगलक्खणो सज्झ-3 वत्थुपज्जातो। आहरणं दिस॒तो कारणमुववत्तिमेत्तं तु ॥१॥” इह हि आक्रन्दादिदारुणशब्दहेतुत्वमेव हेतुः, तस्योक्तन्यायेनान्वयान्वितत्वात् , सति चान्वये व्यतिरेकस्यापि सम्भवात् , इदमेव चान्वयव्यतिरेकविकलतया विवक्षितमुप|पत्तिमात्रं कारणम्, एवं सर्वत्र कारणभावना कार्येत्यलं प्रसङ्गेन, प्रकृतमेव सूत्रमनुस्रियते, 'ततः' प्रेरणाऽनन्तरं 'नमिः' नमिनामा राजर्षिः 'देवेन्द्रं' शक्रम् 'इदं' वक्ष्यमाणम् 'अब्रवीत्' उक्तवानिति सूत्रार्थः ॥ किं तदुक्तवानित्याह१ कुत्रापि पञ्चावयवं दशधा वा सर्वथा न प्रतिषिद्धम् । न च पुनः सर्व भण्यते हन्दि सविचारमाख्यातम् ॥ १॥ जिनवचनं सिद्ध
G ॥३०८॥ मेव भण्यते कुत्रचिदुदाहरणम् । आसाद्य तु श्रोतारं हेतुरपि कुत्रचिद्वक्तव्यः ॥२॥२ हेतुरनुगमव्यतिरेकलक्षणः साध्यवस्तुपर्यायः ।। टू आहरणं दृष्टान्तः कारणमुपपत्तिमात्रं तु ॥ १॥
Jan Ed
For Private & Personal use only