SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ | हलकेन-बहलकलकलात्मकेन सङ्कलाः - व्याकुलाः कोलाहलकसंकुलाः 'श्रूयन्ते' इत्याकर्ण्यन्ते 'शब्दा' ध्वनय इति सम्बन्धः, ते च कदाचिद्वन्दिवृन्दोदीरिता अपि स्युः तन्निराकरणायाह — दारयन्ति जनमनांसीति दारुणाः - विलपिताऽऽक्रन्दितादयः, व पुनस्ते ? - 'प्रासादेषु' सप्तभूमादिपु 'गृहेषु' सामान्यवेश्मसु यद्वा 'प्रासादो देवतानरेन्द्राणा'|मितिवचनात् प्रासादेषु देवतानरेन्द्रसम्वन्धिष्वास्पदेषु 'गृहेषु' तदितरेषु चशब्दात्रिकचतुष्कचत्वरादिषु चेति सूत्रार्थः ॥ ततश्च एयम निसामित्ता, हेउकारणचोइओ । ततो णमी रायरिसी, देविंदं इणमब्बवी ॥ ९ ॥ व्याख्या- 'एनम् ' अनन्तरोक्तम् 'अर्थ' इत्युपचारादर्थाभिधायिनं ध्वनिं 'निशम्य आकर्ण्य हिनोति - गमयति | विवक्षितमर्थमिति हेतु:, स च पञ्चावयववाक्यरूपः, कारणं च - अन्यथाऽनुपपत्तिमात्रं ताभ्यां चोदितः - प्रेरितः हेतु| कारणचोदितः, कोलाहलकसङ्कला दारुणाः शब्दाः श्रूयन्त इत्यनेन हि उभयमेतत् सूचितं, तथाहि - अनुचितमिदं |भवतोऽभिनिष्क्रमणमिति प्रतिज्ञा, आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतुः, प्राणव्यपरोपणादिवदिति दृष्टान्तः, | यद्यदाक्रन्दादिदारुणशब्दहेतुस्तत्तद्धर्मार्थिनोऽनुचितं यथा प्राणव्यपरोपणादि, तथा चेदं भवतोऽभिनिष्क्रमण| मित्युपनयः, तस्मादाक्रन्दादिदारुणशब्दादिहेतुत्वादनुचितं भवतोऽभिनिष्क्रमणमिति निगमनमिति पञ्चावयवं वाक्यमिह हेतुः, शेषावयवविवक्षाविरहितं त्याक्रन्दादिदारुणशब्दहेतुत्वं भवदभिनिष्क्रमणानुचितत्वं विनाऽनुपपन्न Jain Education in al For Private & Personal Use Only helibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy