SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ आत्मविघातकारिणी, तथा चात्मपीडाहेतुरिति कथं नागमविरोधः १, अत एव च भक्तपरिज्ञानादिषु पीडापरिहाराय 'चत्तारि विचित्ताई विगईणिजूहियाई'इत्यादिसंलेखनाविधिः पानकादिविधिश्च तत्र तत्राभिहितः, दर्शनमालिन्यं चोभयत्रेत्याशड्याह-एते' अनन्तरोक्के 'द्वे अपि' गृध्रपृष्ठवैहायसाख्ये मरणे 'कारणजाते' कारणप्रकारे दर्शनमालिन्यपरिहारादिके उदायिनृपानुमृततथाविधाचार्यवत् अनुज्ञाते, तीर्थकृद्गणधरादिभिरिति, अनेन |च सम्प्रदायानुसारितां दर्शयन्नन्यथाकथने श्रुताशातनाया अतिदुरन्तत्वमाह इति गाथार्थः ॥ २२४ ॥ साम्प्रतमन्त्यमरणत्रयमाहभत्तपरिण्णा इंगिणी पाओवगमंच तिण्णि मरणाई। कन्नसमज्झिमजेद्दा धिइसंघयणेण उ विसिट्रा २२५ । __ व्याख्या-भक्तं-भोजनं तस्य परिज्ञा-ज्ञपरिज्ञयाऽनेकधेदमस्माभिर्मुक्तपूर्वमेतद्धेतुकं चावद्यमिति परिज्ञान, प्रत्या-14 ख्यानपरिज्ञया च "सवं च असणपाणं चउविहं जा य बाहिरा उवही । अभितरं च उवहिं जावजीवं च वोसिरे ॥१॥” इत्यागमवचनाचतुर्विधाहारस्य वा यावज्जीवमपि परित्यागात्मकं प्रत्याख्यानं भक्तपरिज्ञोच्यते, इङ्ग्यते-प्रतिनियतप्रदेश एव चेष्ट्यते अस्यामनशनक्रियायामितीङ्गिनी, पादैः-अधःप्रसर्पिमूलात्मकैः पिबति पादपो-वृक्षः, उप-2 १ चत्वारि विचित्राणि नियूढविकृतीनि । २ सर्व चाशनपानं चतुर्विधं यश्व बाह्य उपधिः । अभ्यन्तरं चोपधिं यावज्जीवं च व्युत्सृजति ।। ३ वाशब्दः पूर्वगाथोक्तसोपध्याहारत्यागसूचार्थः । For Privale & Personal Use Only hainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy