________________
उत्तराध्य.
|लिनः - उत्पन्न केवलाः सकलकर्म्मपुद्गल परिशाटतो म्रियन्ते तज्ज्ञेयमिति शेषः, उभयत्राभेदनिर्देशः प्राग्वदिति गाथार्थः | ॥ २२३ ॥ साम्प्रतं वैहायसगृपृष्ठमरणे अभिधातुमाह
बृहद्वृत्तिः १ गिद्धाइभक्खणं गिद्धपिट्ट उब्बंधणाई वेहासं । एए दुन्निवि मरणा कारणजाए अणुष्णाया ॥ २२४ ॥ व्याख्या- 'गृद्धाः ' प्रतीतास्ते आदिर्येषां शकुनिका शिवादीनां तैर्भक्षणं गम्यमानत्त्वादात्मनः तदनिवारणादिना | तद्भक्ष्य करिकरभादिशरीरानुप्रवेशेन च गृत्रादिभक्षणं, तत् किमुच्यत इत्याह- 'गिद्धपिट्ठ' त्ति गृधैः स्पृष्टं - स्पर्शनं यस्मिं -
॥२३४॥
अस्पृष्टम्, यदिवा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्त्वादुदरादि च मर्तुर्यस्मिंस्तद्वत्रपृष्ठम्, स ालक्तक पूर्णिकापुटप्रदानेनाप्यात्मानं गृघ्रादिभिः पृष्ठादौ भक्षयतीति, पश्चान्निर्दिष्टस्यापि चास्य प्रथमतः प्रतिपादनमत्यन्तमहासत्त्वविषयतया कर्मनिर्जरां प्रति प्राधान्यख्यापनार्थम्, 'उब्बंधणाइ वेहासंति' उत्-ऊर्ध्वं वृक्षशाखादौ बन्धनमुद्बन्धनं तदादिर्यस्य | तगिरिभृगुप्रपातादेरात्मजनितस्य मरणस्य तदुद्बन्धनादि ' वेहास' न्ति प्राकृतत्त्वाद्यलोपे वैहायसम्, उद्धद्धस्य हि विहायस्येव भवनमिति तत्प्राधान्यविवक्षयेत्थमुक्तम् । आह एवं गृपृष्ठस्याप्यात्मघातरूपत्वाद्वैहाय सिकेऽन्तर्भावः, सत्यमेतत्, केवलमल्पसच्चैरध्यवसातुमशक्यताख्यापनार्थमस्य भेदेनोपन्यासः, ननु - " भावियजिणवयणाणं ममत्तर हियाण णत्थि हु विसेसो । अत्ताणंमि परंमि य तो वज्जे पीडमुभएवि ॥ १ ॥ " इत्यागमः, एते चानन्तरोक्ते मरणे १ भावित जिनवचनानां ममत्वरहितानां नास्त्येव विशेषः । आत्मनि परस्मिंश्च ततो वर्जयेत् पीडामुभयोरपि ॥ १ ॥
Jain Education International
For Private & Personal Use Only
अकाम
मरणाध्य.
॥२३४॥
www.jainelibrary.org