________________
उत्तराध्य.
नमिप्रनज्याध्य.९
बृहद्वृत्तिः
॥२९८॥
अथ नवममध्ययनम् । | ॥ उक्तमष्टममध्ययनं, साम्प्रतं नवममारभ्यते-अस्य चायमभिसम्बन्धः-अनन्तराध्ययने निर्लोभत्वमुक्तम् , है इह तु तदनुष्ठितेः इहैव देवेन्द्रादिपूजोपजायत इति दयते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्ट
यवर्णनं पूर्ववद्यावन्नामनिष्पन्न निक्षेपेऽन्वर्थानुगतं नमिप्रव्रज्येतिनाम, अतो नमःप्रव्रज्यायाश्च निक्षेपो वाच्य इत्युभयनिक्षेपाभिधानायाह नियुक्तिकृत्
निक्खेवो उ नमिमि चउविहो दः॥२६०॥ जाणग०॥ २६१ ॥ नमिआउनामगोयं वेयंतो भावतो नमी होइ । तस्स य खलु पवजा नमिपवाजंति अज्झयणं ॥२६२ ॥ पवजानिक्खेवो चउविहो अन्नतिथिगा दवे । भावंमि उ पवज्जा आरंभपरिग्गहच्चाओ ॥ २६३ ॥ र व्याख्या-'निक्षेपः' न्यासः, 'तुः' पूरणे, 'नमौ' नमिविषयः 'चतुर्विधः' चतुर्भेदो नामादिः, तत्र च नामस्थापने सुगमे, 'द्विविधः' विभेदो भवति 'द्रव्ये' द्रव्यविषयः, तमेवाह-आगमनोआगमतः, तत्रागमतो ज्ञाताऽनुपयुक्तः, नोआगमतश्च स 'त्रिविधः' त्रिभेदः, 'जाणगसरीरभविए तबइरित्ते यत्ति नमिशब्दस्य प्रत्येकमभिसम्बन्धात् ज्ञशरीरनमिभव्यशरीरनमिस्तद्वयतिरिक्तनमिश्च, 'स' तद्वयतिरिक्तनमिर्भवेत् त्रिविधः-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च,
॥२९८॥
JainEducation international
For Private & Personal use only
www.jainelibrary.org