________________
RSASARA%A9%%A4%A
लमिति (पा.३-३-१) बहुलवचनाच्छः, यद्वा-'इत्थि'त्ति स्त्रियो 'विप्पजहे'त्ति विप्रजह्यात्, पूर्वत्र च नारीग्रहणान्मनुष्यस्त्रिय एवोक्ता, इह च देवतियक्सम्बन्धिन्योऽपि त्याज्यतयोच्यन्ते इति न पौनरुक्त्यमुपदेशत्वाद्वा, 'अनगारः' प्राग्वत्, किं पुनः कुर्यादित्याह-'धर्ममेव ब्रह्मचर्यादिरूपं, चस्यावधारणार्थत्वात् , 'पेशलम्' इह परत्र चैकान्तहितत्वेनातिमनोजं 'ज्ञात्वा' अवबुध्य, 'तत्र' इति धर्मे 'स्थापयेत्' निवेशयेद् 'भिक्षुः' यतिः आत्मानं विषयामिलापनिषेधत इति सूत्रार्थः ॥ अध्ययनार्थोपसंहारमाहइइ एस धम्मेअक्खाए कविलेणंचविसुद्धपण्णेणं। तरिहिंतिजे उ काहिंतितेहिं आराहिया दुवे लोगु२०त्तिमि
व्याख्या-'इति' अनेन प्रकारेण 'एषः' अनन्तरमुक्तरूपः 'धर्मः' यतिधर्मः आङिति सकलतत्व रूपाभिव्याप्त्या ख्यातः-कथितः आख्यातः, केनेत्याह-'कपिलेन' इत्यात्मानमेव निर्दिशति, पूर्वसङ्गतिकत्वादमी मदचनतः प्रतिपद्यन्तामिति, 'चः' पूरणे, 'विशुद्धप्रज्ञेन' निर्मलावबोधेन, अतोऽर्थसिद्धिमाह-'तरिहिंतित्ति तरिष्यन्ति, भवार्णवमिति शेषः, 'ये' इत्यविशेषाभिधानं, 'तुः' पूरणे, ततो विशेषत एव तरिष्यन्ति, ये 'करिष्यन्ति' अनुष्ठास्यन्ति, प्रक्रमादमुं धर्मम् , अन्यच्च 'तैः' 'आराधितो' सफलीकृतौ 'द्वौ' द्विसङ्ख्यौ लोको, इहलोकपरलोकावित्यर्थः, इह महाजनपूज्यतया परत्र च निःश्रेयसाभ्युदयप्रात्येति सूत्रार्थः॥ 'इतिः' परिसमाप्तौ ब्रवीमि इति नयाश्च प्राग्वदिति॥ इति श्रीशान्त्याचार्यविरचितायां शिष्यहितायां विशेषटीकायामिदमष्टममध्ययनं व्याख्यातं कापिलं नाम ॥
*
For Private & Personal Use Only
nelibrary.org
Jain Education 11