________________
यथाऽसौ तस्निग्धतागन्धादिभिराकृष्यमाणा तत्र मजति, ममा च रेवादिना बध्यते, एवं जन्तुरपि भोगामिषे मनः कर्मणेति सूत्रार्थः ॥ नन यद्येवममी भोगाः कर्मबन्धकारणं किं नैतान् सर्वेऽपि जन्तवस्त्यजन्तीत्याहदुप्परिचया इमे कामा नो सुजहा अधीरपुरिसेहिं । अह संति सुब्बया साहू जे तरंति अतरं वणिया व ॥६॥ I व्याख्या-दुःखेन-कृच्छेग परित्यज्यन्ते-परिहियन्त इति दुष्परित्यजाः 'इमे' प्रत्यक्षत उपलभ्यमानाः 'कामाः' भोगाः 'नो' नैव 'सुजह'त्ति सूत्रत्वात सुखेन-अनायासेन हीयन्त इति सुहानाः-सुत्यजाः, विषसम्पृक्तस्निग्धमधुरानवद्, कैः?-'अधीरपुरुषैः' अबुद्धिमद्भिरसत्त्वैर्वा नरैः, पुरुषग्रहणं तु ये तावदल्पवेदोदयतया सुखेनैव सक्तारः सम्भवन्ति तैरप्यमीन सुखेन यज्यन्ते, आस्तामतिदारुणवीपण्डकवेदोदयाऽऽकुलितः स्त्रीनपुंसकैरिति । यचेह दुष्परित्यजा इत्युक्त्वा पुनर्न सुहानाः इत्युक्तं तदत्यन्त दुस्त्यजताख्यापकं प्रश्चितज्ञपिनेयानुप्राहकं वेति अपुनरुक्तमेव, अधीरग्रहणन तु धीरैः सुत्यजा एवेत्युच्यते, अत एवाह-'अथ' इत्युपन्यासे 'सन्ति' विद्यन्ते शोभनानि सम्यग्ज्ञानाधिष्ठितत्वेन व्रतानि-हिंसाविरमणादीनि येषां ते सुव्रताः, शान्त्या वोपलक्षिताः सुव्रताः शान्तिसुव्रताः, इह च सन्तीति शेषः, साधयन्ति पौरुषेयीभिः क्रियाभिक्तिमिति साधवः, ये किमित्याह-ये 'तरन्ति' परपारावाप्त्याऽतिकामन्ति, कम् ?'अतरं' तरीतुमशक्यं विषयगणं भवं वा, क इव?-वणिज इत्र, वाशब्दस्यहेवार्थत्वात् , यथा हि वणिजोऽतरं नीराधि यानपात्रादिनोपायेन तरन्ति एवमेतेऽपिधीरा व्रतादिनोक्तरूपमतरम् , अधीररेवोक्तनीतितोऽस्य दुतरत्वात् , पठन्ति
Jain Education
a
l
For Privale & Personal use only
I
relibrary.org