________________
उत्तराध्य.
बृहद्वृत्तिः
॥२३३॥
Jain Education
दुःखेनान्तः - पर्यन्तो यस्य तद्दुरन्तं तस्मिन्, तथा 'दीर्घे' अनादौ केषाञ्चिदपर्यवसिते चेति तत् सर्वथा परिहर्त्तव्यमेवैति भाव इति गाथार्थः ॥ २२० ॥ तद्भवमरणमाह
मोत्तुं अकम्मभूमगनरतिरिए सुरगणे अ नेरइए । सेसाणं जीवाणं तब्भवमरणं तु केसिंचि ॥ २२९ ॥ व्याख्या -'मुक्त्वा' अपहाय, कान् ? - 'अकम्मभूमगनरतिरिए' ति सूत्रत्वात् अकर्म्मभूमिजाश्च ते देवकुरूत्तरकु|र्वादिपूत्पन्नतया नरतिर्यञ्चश्च अकर्म्मभूमिजनरतिर्यञ्चस्तान्, तेषां हि तद्भवानन्तरं देवेष्वेवोत्पादः, तथा 'सुरगणांश्च' सुरनिकायान्, किमुक्तं भवति ? - चतुर्निकायवर्तिनोऽपि देवान्, निरयो - नरकः तस्मिन् भवा नैरयिकाः, इहापि चशब्दानुवृत्तेस्तांश्च मुक्त्वेति सम्बन्धः, तेषां देवानां च तद्भवानन्तरं तिर्यग्मनुष्येष्वेवोत्पत्तेः, 'शेषाणाम्' एतदुद्धरितानां कर्म्मभूमिजनर तिरश्चां 'जीवानां' प्राणिनां तद्भवमरणं, तेषामेव पुनस्तत्रोत्पत्तेः तद्धि यस्मिन् भवे वर्त्तते जन्तुस्तद्भव योग्यमेवायुर्वद्धा पुनस्तत्क्षयेण म्रियमाणस्य भवति, तुशब्दस्तेषामपि सङ्ख्येयवर्षायुषामेवेति विशेषख्यापकः, असङ्खयेयवर्षायुषां हि युगलधार्मिकत्वादकर्म्मभूमिजानामिव देवेष्वेवोत्पाद:, तेषामपि न सर्वेषां, किन्तु 'केषाञ्चित्' तद्भवोत्पादानुरूपमेवायुः कर्मोपचिन्वतामिति गाथार्थः ॥ २२१ ॥ अत्रान्तरे प्रत्यन्तरेषु 'मोतूण ओहि - मरणं' इत्यादिगाथा दृश्यते, न चास्या भावार्थः सम्यगववुध्यते, नापि चूर्णिकृताऽसौ व्याख्यातेति उपेक्ष्यते ॥ सम्प्रति वालपण्डित मिश्रमरणख रूपमाह -
Mentonal
For Private & Personal Use Only
अकाम
मरणाध्य.
५
॥२३३॥
unelibrary.org