SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ६ जना हि इयं मम इत्यभिमानेन, अपिः पूरणे, ये गुरुकाणो 'न कथयन्ति' नालोचयन्ति, केषाम् ?-'गुरूणाम्' आलोचनार्हाणामाचार्यादीनां, किं तद् ?–'दुश्चरितं' दुरनुष्ठितम् इति सम्बन्धः, 'न हु' नैव 'ते' अनन्तरमुक्तरूपा | आराधयन्ति-अविकलतया निष्पादयन्ति सम्यग्दर्शनादीनि इत्याराधका भवन्ति, ततः किमित्याह-गौरवं पङ्क इव कालुष्यहेतुतया तस्मिन् निबुड्डा-इति प्राकृतत्वान्निमग्ना इव निमनाः तक्रोडीकृततया, लज्जामदयोरपि प्रागुपादाने यदिह गौरवस्यैवोपादानं तदस्यैवातिदुष्टताख्यापनार्थम् , 'अतिचारम्' अपराधं ये 'परस्य' आचार्यादेः न कथयन्ति, किंविषयम् ? इत्याह-'दर्शनज्ञानचारित्रे' दर्शनज्ञानचारित्रविषयं, तत्र दर्शनविषयं शङ्कादि ज्ञानविषयं कालातिक्रमादि चारित्रविषय समित्यननुपालनादि, शल्यमिव शल्यं कालान्तरेऽप्यनिष्टफलविधानं प्रत्यवन्ध्यतया, सह तेन सशल्यं तच तन्मरणं च सशल्यमरणम्-अन्तःशल्यमरणं भवति, 'तेषां' गौरवपङ्कमनानामिति गाथाद्वयार्थः। ॥ २१८-२१९ ॥ अस्यैवात्यन्तपरिहार्यतां ख्यापयन् फलमाह| एयं ससल्लमरणं मरिऊण महब्भए दुरंतंमि । सुइरं भमंति जीवा दीहे संसारकंतारे ॥ २२०॥ ___ व्याख्या-'एतद्' उक्तखरूपं सशल्यमरणं यथा भवति तथेत्युपस्कारः, सुब्व्यत्ययाद्वा एतेन-सशल्यमरणेन ४ 'मृत्वा'त्यक्त्वा प्राणान् , के ?-जीवा इति सम्बन्धः, किम् ?-'सुचिरं भ्रमन्ति' बहु कालं पर्यटन्ति, क ?-संसारः कान्तारमिवातिगहनतया संसारकान्तारः तस्मिन्निति सण्टङ्कः, कीशि ?-महद्भयं यस्मिन् तन्महाभयं तस्मिन् , तथा Jain Education For Privale & Personal Use Only nelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy