________________
उत्तराध्य.
बृहद्वृत्तिः
॥२८४॥
Jain Education
त्पथप्रस्थितान् विलोक्य सिद्धान्त एव दोष इति तदनपराधित्वमुक्तं, पठ्यते च - 'पत्तो णेयाउयं' ति स्पष्टमिति सूत्रार्थः ॥ यस्तु कामेभ्यो निवृत्तस्तस्य गुणमाह
इह कामा नियहस्स, अन्तट्ठे नावरज्झति । पूतिदेहनिरोहेणं, भवे देवेत्ति मे सुयं ॥ २६ ॥ व्याख्या—इह कामेभ्यो निवृत्तः कामनिवृत्तः तस्यात्मार्थः - खर्गादिः 'नापराध्यति' न भ्रश्यति, आत्मलक्षणो वाऽर्थो न सापराधो भवति, किं पुनरेवं ?, यतः - पूतिः - कुथितो देहः - अर्थादौदारिकं शरीरं तस्य निरोधः - अभावः पूतिदेह - निरोधः तेन 'भवेत् ' स्यात्, प्रकृतत्वात् कामनिवृत्तो 'देवः' सौधर्म्मादिनिवासी सुरः, उपलक्षणत्वात् सिद्धो वा, 'इती' त्येतत् मया 'श्रुतम्' आकर्णितं, परमगुरुभ्य इति गम्यते, अनेन खर्गाद्यवाप्तिः आत्मार्थानपराधे निमित्तमुक्तमिति सूत्रार्थः ॥ ततश्च यदसावाप्नोति तदाह
डी जुती जसो वन्नो, आउं सुहमणुत्तरे । भुज्जो जत्थ मणुस्सेसुं, तत्थ से उववज्जति ॥ २७ ॥ व्याख्या- 'ऋद्धिः' कनकादिसमुदायः 'द्युतिः' शरीरंकान्तिः 'यशः' पराक्रमकृता प्रसिद्धिः 'वर्णः' गाम्भीर्यादिगुणैः श्लाघा गौरादिर्वा 'आयुः' जीवितं 'सुखं' यथेप्सितं विषया ( ग्रन्थाग्रम् ७००० ) वासावाल्हादः, न विद्यते उत्तरं - प्रधानमस्मादित्यनुत्तरम्, इदं च सर्वत्र योज्यते, 'भूयः' पुनः, देवभवापेक्षमेतत्, तत्रापि धनुत्तराण्येवैतान्यस्य सम्भवन्ति'यत्र' येषु 'मनुष्येषु' मनुजेषु 'तत्र' तेषु 'से' त्ति सोऽथशब्दार्थो वा, ततोऽनन्तरम् 'उत्पद्यते ' जायत इति सूत्रार्थः ॥
National
For Private & Personal Use Only
औरश्री
याध्य. ७
॥ २८४ ॥
inelibrary.org