________________
औरभ्री
उत्तराध्य.
याध्य. ७
बृहद्वृत्तिः ॥२८३॥
व्याख्या-कुशाग्रशब्देन कुशाग्रस्थितो जलविन्दुरुपलक्ष्यते, तन्मात्राः-तत्परिमाणाः 'इमे' इति प्रत्यक्षाः 'कामाः' प्रकृतत्वान्मनुष्यविषयाः, कदा य इत्याह-सन्निरुद्धे' अत्यन्तसंक्षिप्ते, यद्वा सम्-एकीभावेन निरुद्धे-अध्यवसानादिभिरुपक्रमणकारणैरवष्टब्धे 'आयुषि' जीविते, अनेन मनुष्यायुषोऽल्पतया सोपक्रमतया वा कामानामल्पत्वमुक्तं, समृद्धघाद्यल्पतोपलक्षणं चैतद् , अस्मिंस्त्वर्थ उक्ते दिव्यकामास्तु जलधिजलतुल्या इत्यर्थाद्गम्यते, 'कस्स हे'ति सूत्रत्वात् कं हेतुं-कारणं 'पुरा काउंति तत एव पुरस्कृत्य-आश्रित्य, अलब्धस्य लाभो-योगो लब्धस्य च परिपालनं |-क्षेमोऽनयोः समाहारो योगक्षेम, कोऽर्थः ?-अप्राप्तविशिष्टधर्मप्राप्तिं प्राप्तस्य च परिपालनं 'न संवित्ते' न जानीते, जन इति शेषः, तदसंवित्तौ हि मनुष्यविषयाभिष्वङ्ग एव हेतुः,ते च धर्मप्राप्यदिव्यभोगापेक्षयैवंप्रायाः, ततस्तत्त्यागतो विषयाभिलाषिणापि धर्म एव यतितव्यमित्यभिप्रायः, यद्वा-यतः कुशाग्रमात्रा-दर्भप्रान्तवदत्यल्पा इमे कामाः, तेऽपि न पल्योपमादिपरिमिती द्राधीयस्यायुषि, किन्तु 'सन्निरुद्धे' संक्षिप्ते आयुषि, ततः 'कस्स हे'ति कस्माद्धेतोः पुरस्कृत्येव पुरस्कृत्य मुख्यतयाऽङ्गीकृत्य, असंयममिति शेषः, योगक्षेमम्' उक्तरूपंन संवित्ते, भावार्थस्त्वभिहित एवेति सूत्रार्थः ॥ इत्थं दृष्टान्तपञ्चकमुक्तं, तत्र च प्रथममुरभ्रदृष्टान्तेन भोगानामायतावपायबहुलत्वमभिहितम् , आयतौ चापायबहुलमपि यन्न तुच्छंन तत्परिहतुं शक्यत इति काकिण्याम्रफलदृष्टान्ततस्तुच्छत्वं, तुच्छमपि च लाभच्छेदात्मकव्यवहारविज्ञतयाऽऽयव्ययतोलनाकुशल एव हातुं शक्त इति वणिग्व्यवहारोदाहरणम् , आयव्ययतोलनाऽपि च
॥२८॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org