________________
-C4OCOCCASSAMACHAROSAROKES
स्यु भो वा न तथाविधस्तदा जयनमपि स्यात् , यदा तु लभमानौ भिक्ष्वगारिणौ दृश्येते लाभश्च देवत्वलक्षणः तदा कथमयं जानानोऽपि जन्तुर्जीयते ?, अत आह-जीयमानो न संवित्ते, किमुक्तं भवति ?-यद्यसौ जीयमानो ४ जानीयात्तदा तदुपायपरतया न जीयेत, यदा त्वसौ विषयव्यामोहतो न जानीते तदा जीयत एवेति किमत्रचित्रम् ? इति सूत्रार्थः ॥ समुद्रदृष्टान्तमाह
जहा कुसग्गे उदयं, समुद्देण समं मिणे । एवं माणुस्सगा कामा, देवकामाण अंतिए ॥ २३ ॥ व्याख्या-'यथा' इति दृष्टान्तोपन्यासे, कुशो-दर्भविशेषस्तस्याग्रं-कोटिः कुशाग्रं तस्मिन् 'उदकं' जलं, तत्किमित्याह-'समुद्रेण' इति 'तात्स्थ्यात्तव्यपदेश' इतिन्यायात् समुद्रजलेन 'सम' तुल्यं 'मिनुयात्' परिच्छिन्द्यात् , तथा किमित्याह-'एवम् ' उक्तनीया 'मानुष्यकाः कामाः' मनुष्यसम्बन्धिनः कामा-विपयाः, मानुष्यविशेषणं तु तेषामेवोपदेशार्हत्वाद्विशिष्टभोगसम्भवाच, 'देवकामानां' दिव्यभोगानाम् 'अन्तिके' समीपे, कृता इति शेषः, दूरस्थितानां हि न सम्यगवधारणमित्येवमाह, किमुक्तं भवति ?-यथाऽज्ञः कश्चित् कुशाग्रस्थितं जलविन्दुमालोक्य समुद्रवन्मन्यते, एवं मूढाश्चकवादिमनुष्यकामान् दिव्यभोगोपमान् अध्यवस्यन्ति, तत्त्वतस्तु कुशाग्रजलबिन्दोरिव समुद्रान्मनुष्यकामानां दिव्यभोगेभ्यो महदेवान्तरमिति सूत्रार्थः ॥ उक्तमेवार्थ निगमयन्नुपदेशमाह
कुसग्गमित्ता इमे कामा, सन्निरुइंमि आउए । कस्स हे पुरा काउं, जोगक्खेमं न संविदे? ॥२४॥
RESTOS
सतराव्य.४८
For Private & Personal Use Only
nelibrary.org