________________
गततत्त्वः, 'अविनीतः' अविनयवान् ‘इत्युच्यते' इति पूर्ववदिति सूत्रार्थः ॥ ३॥ साम्प्रतं दृष्टान्तपूर्वकमिहैवास्य सदोषतामाह
जहा सुणी पुईकण्णी, णिक्कसिज्जइ सबसो। एवं दुस्सीलपडिणीए, मुहरि निक्कसिज्जइ ॥४॥ (सूत्रम्) । B व्याख्या-'यथा' इत्युपदर्शने, श्वसितीति शुनी, स्त्रीनिर्देशोऽत्यन्तकुत्सोपदर्शकः, पूती-परिपाकतः कुथि- 2 तगन्धी कृमिकुलाकुलत्वाद्युपलक्षणमेतत् , तथाविधी कर्णी-श्रुती यस्याः पक्वरक्तं वा प्रतिस्तद्याप्तो करें यस्याः
सा पूतिकर्णा, सकलावयवकुत्सोपलक्षणं चैतत् , सा चेदृशी शुनी किमित्याह-निष्काश्यते' निर्वास्यते बहिनिःसाहर्यत इतियावत्, कुतः ?-'सबसो' ति सर्वतः सर्वेभ्यो गोपुरगृहाङ्गणादिभ्यः सर्वान् वा हतहतेत्यादिविरुक्षवच
नलतालकुटलेष्टुघातादिकान् प्रकारानाश्रित्य 'छन्दोवत् सूत्राणि भवन्तीति छान्दसत्वाच सूत्रे शस्प्रत्ययः । उपनयमाह-एवम्' अनेनैव प्रकारेण, दुष्टमिति-रागद्वेषादिदोषविकृतं शीलं-खभावः समाधिराचारो वा यस्यासौ दुःशीलः, प्रत्यनीकः प्राग्वत्, मुखेनारिमावहति मुखमेव वेहपरलोकापकारितयाऽरिरस्य मुधैव वा कार्य विनवा
रयो यस्यासौ मुखारिर्मुधारिा-बहुविधासम्बद्धभाषी, सूत्रत्वाद्वा 'मुहरि' त्ति मुखरो-वाचाटो निष्काश्यते 'सर्वतः' है इतीहापि योज्यते, ततश्च सर्वतो निष्काश्यते, सर्वथा कुलगणसङ्घसमवायबहिर्वर्ती विधीयत इति सूत्रार्थः॥४॥
Jain Educ
a
tional
For Private & Personal use only
w.jainelibrary.org