________________
शक्तिरस्ति नवा ? इत्यालोचनं १, पुरुषज्ञानं-किमयं प्रतिवादी पुरुषः साङ्ख्यः सौगतोऽन्यो वा ?, तथा प्रतिभादिमानितरो वेति परिभावनं २, क्षेत्रज्ञानं-किमिदं मायाबहुलमन्यथा वा ? तथा साधुभिरभावितंभावितं वा नगरादीति विमर्शनं ३, वस्तुज्ञानं-किमिदं राजाऽमात्यादि सभासदादि वा वस्तु दारुणमदारुणं भद्रकमभद्रकं वेति निरूपणं ४,७। सङ्ग्रहपरिज्ञा तु बालदुर्बलग्लाननिर्वाहबहुजनयोग्यक्षेत्रग्रहणलक्षणैका १निषद्यादिमालिन्यपरिहाराय फलकपीठोपादानाऽऽत्मिका द्वितीया २ यथासमयमेव खाध्यायोपधिसमुत्पादनप्रत्युपेक्षणभिक्षादिकरणात्मिका तृतीया ३प्रत्राजकाध्यापकरत्नाधिकादिगुरूणामुपधिवहनविश्रामणसंपूजनाभ्युत्थानदण्डकोपादानादिरूपा चतुर्थीति ४,८। इत्युक्ता अष्टौ चतुर्गुणा आचारादिगणिसम्पदः, विनयस्तूत्तरत्राचार्यविनयप्रस्तावेऽभिधास्यते, इति गतं प्रासङ्गिकं, प्रकृ-14 तमुच्यते-तत्राऽऽचार्यस्य खरूपमभिहितं, शिष्यस्थाह-आचार्यस्य, अपिभिन्नक्रमः, ततः शिष्योऽपि, न केवलमाचार्यस्तादृशो यादृशो नवरं स एवेति वचनादाचार्य इत्यपिशब्दार्थः, 'सदृशः' तुल्यः, सर्वैरपि न कतिपयरेव, कैः ?'गुणैः' साधारणैः क्षान्त्यादिभिरिति गम्यते, यद्वा लक्षणे तृतीया, ततः सर्वैरपि खगुणैर्लक्षितः शिष्य आचार्यस्य सदृश इति योज्यं, सादृश्यं च खगुणमाहात्म्यविभूतित उभयोरपि यथोक्तान्वर्थयुक्त(त्व)मेव, अथवाऽऽचार्यस्थापीति अपरेवकारार्थत्वात् खगुणोपलक्षितः शिष्यः सदृश एव-अनुरूप एव, अनुरूपार्थस्यापि सदृशशब्दस्य दर्शनात्, यथाऽऽत्मसदृशं कुर्याः, कुलानुरूपमित्यर्थः, अननुरूपस्तु तत्त्वतोऽशिष्य एवेति भावः, अथ के अमी शिष्यगुणाः, ?
Jain Educa
t ional
IXI
For Privale & Personal Use Only
nelibrary.org