SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Jain Educa प्रदेशसंयोगः, उच्यते इति शेषः, अस्यैव विभागमाह - ' त्रयाणां पुनः पुनःशब्दस्य विशेषद्योतकत्वात् धर्माधर्माकाशप्रदेशानां धर्मादिभिरेव त्रिभिस्तेषामेव देशैः प्रदेशान्तरैश्च प्रकृतत्वादितरेतरसंयोगः 'अनादिः ' आदिविकलः सदा संयुक्तत्वादेषां, 'सादिकः' आदियुक्तो भवति 'द्वयोः' पारिशेष्याज्जीवप्रदेशपुद्गलप्रदेशयोः, तथाहि - संयुज्यन्ते वियुज्यन्ते | संसारिजीवप्रदेशाः कर्मपुद्गलप्रदेशाश्च परस्परं धर्मादिप्रदेशैश्च सह, तुशब्दो विशेषं द्योतयति, स चायं - जीवप्रदेशानां | धर्मादित्रयदेशप्रदेशापेक्षया पुद्गलस्कन्धाद्यपेक्षया च सादिसंयोगः, धर्मादिस्कन्धत्रयापेक्षया त्वनादिः, पुद्गलप्रदेशानामपि | धर्मादिस्कन्धत्रयापेक्षयाऽनादिः, शेषापेक्षया तु सादिः । इह च धर्मादिस्कन्धानां तद्देशानां च यः परस्परं संयोगः स न प्रदेशसंयोगमन्तरेणेति तदभिधानत एवोक्तो मन्तव्यः, अप्रदेशस्य तु परमाणोर्धर्मादिभिः संयोग उक्तानुसारतः सुज्ञान एव इति नोक्त इति गाथार्थः ॥ ४२ ॥ उक्तः प्रदेशानामितरेतरसंयोगः, सम्प्रत्यभिप्रेतानभिप्रेतभेदरूपं तमेवाहअभिपेयमणभिपेओ पंचसु विसएस होइ नायवो । अणुलोमोऽभिप्पेओ अभिप्पेओ अ पडिलोमो ४३ व्याख्या- 'अभिपेय' त्ति अभिप्रेतः 'अनभिप्पेओ' त्ति चस्य गम्यमानत्वादनभिप्रेतश्च प्रक्रमादितरेतरसंयोगः, किमित्याह - 'पञ्चसु' विषयेषु शब्दादिपञ्चकगोचरे, अर्थादिन्द्रियमनसां तद्ब्रहणप्रवृत्तौ ग्राह्यग्राहकभावः, स चाभि| प्रेतार्थविषयोऽभिप्रेतः अनभिप्रेतार्थविषयस्त्वनभिप्रेतः भवति ज्ञातव्यः, आह- अस्त्वेवाभिप्रेतानभिप्रेतार्थविषयत्वे| नाभिप्रेतः अनभिप्रेतश्चेतरेतरसंयोगः, अभिप्रेतानभिप्रेतार्थौ तु काविति, अत्रोच्यते, 'अनुलोम' इन्द्रियाणां प्रमोदहे national For Private & Personal Use Only ww.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy