SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. ततोऽस्य कर्मप्रदेशान्तरैः संयोगो मिश्रसंयुक्तकद्रव्यसंयोग उच्यते, इह च जीवकर्मणोरनादिसंयोगस्य धातुकनकादि- अध्ययनम् | संयोगदृष्टान्तद्वारेणाभिधानं तद्वदेवानादित्वेऽप्युपायतो जीवकर्मसंयोगस्याभावख्यापनार्थम्, अन्यथा मुक्त्यनुष्ठानवै| फल्यापत्तेरिति भावनीयमिति गाथार्थः ॥ ३४ ॥ उक्तः संयुक्तकसंयोगः, इतरेतरसंयोगमाह बृहद्वृत्तिः | ॥ २५ ॥ | इयरेयर संजोगो परमाणूणं तहा पसाणं । अभिपेयमणभिपेओ अभिलावो चेव संबंधो ॥ ३५ ॥ व्याख्या — इतरेतरस्य - परस्परस्य संयोगो-घटना इतरेतरसंयोगः 'परमाणूनाम्' उक्तरूपाणां, तथा प्रकर्षेण - सूक्ष्मातिशयलक्षणेन दिश्यन्ते - कथयन्त इति प्रदेशाः - धर्मास्तिकायादिसम्बन्धिनो निर्विभागा भागास्तेषाम्, | 'अभिपेयं' ति प्राकृतत्वादभिप्रेतः, इतरेतरसंयोग इति योज्यते, एवमुत्तरत्रापि, अभिप्रेतत्वं चास्याभिप्रेतविषयत्वाद्, एतद्विपरीतोऽनभिप्रेतः, अभिलप्यते - आभिमुख्येन व्यक्तमुच्यतेऽनेनार्थ इत्यभिलापो - वाचकः शब्दस्तद्विषयत्वात् अभिलापः, चः समुच्चये, 'एवः' अवधारणे, सम्बन्धशब्दानन्तरं चैतौ योज्यौ, ततः सम्बन्धनं-सम्बन्धः, स चैवं खखामित्वादिरनेकधा वक्ष्यमाणः, एतावद्भेद एवायमितरेतरसंयोग इति चावधारणस्यार्थ इति गाथासमासार्थः ॥ ३५ ॥ | परमाणूनां संयोगमाह - दुविहो परमाणूणं हवइ य संठाणखंधओ चैव । संठाणे पंचविहो दुविहो पुण होइ खंधेसुं ॥ ३६ ॥ Jain Educationational For Private & Personal Use Only ॥ २५ ॥ ainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy