________________
ANGACASSOCCACCESCRECECCALS
क्तानामेव विशिष्टवर्णिकादिभिः संयोगोऽचित्तसंयुक्तकसंयोग उक्तानुसारेण सुज्ञान एवेति नियुक्तिकृता न व्याख्यात इति गाथार्थः॥३३॥ दृष्टान्तपूर्वक सन्ततिकर्मणा जीवस्य मिश्रसंयुक्तकद्रव्यसंयोग व्यक्तीकर्तुमाहजह धाऊ कणगाई सभावसंजोगसंजुया हुंति । इअ संतइकम्मेणं अणाइसंजुत्तओ जीवो ॥ ३४ ॥ ___ व्याख्या-'यथा' इत्युदाहरणोपन्यासार्थः, यथा 'धातवः' कनकादियोनिभूता मृदादयः 'कणगाईत्ति सूत्रत्वाकनकादिभिः, आदिशब्दात्ताम्रादिभिश्च, किमित्याह-स्वभावेन संयोगः-प्रकृतीश्वराद्यर्थान्तरव्यापारानपेक्षयोपलक्ष्यानुपलक्ष्यरूपो यः सम्बन्धस्तेन संयुता-मिश्रिताः खभावसंयोगसंयुताः भवन्ति' विद्यन्ते 'इती'त्यमुनैवार्थान्तरनिरपेक्षत्वलक्षणेन प्रकारेण सन्ततिः-उत्तरोत्तरनिरन्तरोत्पत्तिरूपः प्रवाहस्तयोपलक्षितं कर्म-ज्ञानावरणादि सन्ततिकर्म तेन, न विद्यते आदिः-प्राथम्यमस्येत्यनादिः स चेह प्रक्रमात्संयोगस्तेन 'स' मिति "अण्णोण्णाणुगयाणं इमं च तं चत्ति विभयणमजुत्तं' इत्यागमाद्विभागाभावतो युक्तः-श्लिष्टोऽनादिसंयुक्तः स एव अनादिसंयुक्तकः, यद्वा-संयोगः-संयुक्तं ततोऽनादिसंयुक्तमस्येति अनादिसंयुक्तकः, क इत्याह-जीवति जीविष्यति जीवितवां|श्चेति जीवः, मिश्रसंयुक्तकद्रव्यसंयोग इति प्रक्रमः; इदमुक्तं भवति-जीवा बनन्तकर्माणुवर्गणाभिरावेष्टितप्रवेष्टितोपिन खरूपं चैतन्यमतिवर्तते, न चाचैतन्यं कर्माणव इति तयुक्ततया विवक्ष्यमाणोऽसौ संयुक्तकमिश्रद्रव्यं, १ अन्योऽन्यानुगतयोरिदं च तच्चेति विभजनमयुक्तम् ।
सत्तराध्य. ५
For Privale & Personal use only
www.jainelibrary.org