________________
Jain Educatio
'कन्देन' तेनैव मूलस्कन्धान्तरालवर्तिना 'स्कन्धेन' स्थुडेन 'त्वचा' छविरूपया 'साले'त्ति एकारोऽलाक्षणिकः, ततः 'शालाप्रवालपत्रैः ' शाखापल्लवपलाशैः, फले इत्यत्राप्येकारस्तथैव, ततः 'पुष्पफलवीजैश्व' प्रसिद्धैरेव 'संयुक्तः' सम्बद्धो भवति 'दुममाइत्ति' मकारोऽलाक्षणिकः ततो द्रुमादिः, आदिशब्दादुच्छगुल्मादिश्च संयुक्तकसंयोग इति प्रक्रमः । स | हि प्रथममुद्रच्छन्नङ्करात्मकः पृथिव्याः संयुक्त एव मूलेन संयुज्यते, ततो मूलसंयुक्तक एवं कन्देन, कन्दसंयुक्त एव स्कन्धेन एवं त्वक्शाखाप्रवालपत्रपुष्पफलवीजैरपि पूर्वसंयुक्त एवोत्तरोत्तरैः संयुज्यते इति भावनीयम्, नन्वेवं द्रुमादेर्द्रव्यत्वात् संयुक्तकसंयोगस्य च गुणत्वात्कथं दुमादिरेव स इति, अत्रोच्यते, धर्मधर्मिणोः कथञ्चिदनन्यत्वादेवमुक्तमित्यदोषः, एवमुत्तरभेदयोरपीति गाथार्थः ॥ ३२ ॥ अण्वादीनामचित्तसंयुक्तकद्रव्यसंयोगं स्पष्टयितुमाह
एगरस एगवण्णे एगेगंधे तहा दुफासे अ । परमाणू खंधेहि अ दुपएसाईहि णायवो ॥ ३३ ॥
व्याख्या -- एकः - अद्वितीय स्तिक्तादिरसान्यतमो रसोऽस्येति एकरसः, तथैकः कृष्णादिवर्णान्यतमो वर्णोऽस्येति एकवर्णः, एवम् 'एकगन्धः' सुगन्धीतरान्यतरगन्धान्वितः, 'एगे' इत्येकारस्यालाक्षणिकत्वात्, तथा द्वौ चाविरुद्धौ त्रिग्धशीताद्यात्मकौ स्पर्शावस्येति द्विस्पर्शः, चशब्दः स्वगतानन्तभेदोपलक्षकः, क एवंविधः १ इत्याह| परमः - तदन्य सूक्ष्मतरासम्भवात् प्रकर्षवान् स चासावणुश्च परमाणुः, उपलक्षणत्वाद् व्यणुकादिश्च, 'स्कन्धैश्व' स्कन्धश
ational
For Private & Personal Use Only.
Jainelibrary.org