________________
--
उत्तराध्य. संजुत्तगसंजोगो सच्चित्तादीण होइ दवाणं । दुममणुसुवण्णमाई संतइकम्मेण जीवस्स ॥ ३१॥ अध्ययनम् बृहद्वृत्तिः
व्याख्या-'संयुक्तकसंयोगः' अनन्तराभिहितस्वरूपः, 'सचित्तादीनां' सचित्ताचित्तमिश्राणां भवति द्रव्याणाम् ,
अमीषामुदाहरणान्याह-'दुममणुसुवण्णमाइ'त्ति अत्र मकारस्यालाक्षणिकत्वात् सुब्ब्यत्ययाच्च 'द्रुमाणुसुवर्णादीनां' ॥२३॥
* प्रत्येकं चादिशब्दसम्बन्धात्सचित्तद्रव्याणां दुमादीनाम् अचित्तद्रव्याणामण्यादीनां सुवर्णादीनां च मिश्रद्रव्यस्य तु
सन्ततिकर्मणोपलक्षितस्य जीवस्य, अत्र चावादीनां सुवर्णादीनामित्युदाहरणद्वयमचित्तद्रव्याणां सचित्तमिश्रद्रव्यापेक्षया भूयस्त्वख्यापनार्थम्, एतद्भयस्त्वं च जीवेभ्यः पुद्गलानामनन्तगुणत्वात्, उक्तं च-"जीवा पोग्गल समया दव पएसा य पजवा चेव । थोवाऽणताणंता विसेसमहिया दुवेऽणंता ॥१॥” इति, अनेन च सचित्तादेः संयोगद्रव्यस्य त्रैविध्यात् संयुक्तकसंयोगस्य त्रैविध्यमुक्तमिति गाथार्थः ॥३॥ तत्र द्रुमादीनां सचित्तसंयुक्तद्रव्यसंयोगं विवरीतुमाह
मूले कंदे खंधे तया य सालेपवालपत्तेहि। पुप्फफलेबीएहि अ संजुत्तो होइ दुममाई ॥ ३२ ॥ व्याख्या-'मूले कन्दे स्कन्धे' इति सर्वत्र सूत्रत्वात् तृतीयार्थे सप्तमी, ततश्च 'मूलेन' अधःप्रसर्पिणा खावयवेन|3| ॥२३॥ १ जीवाः पुद्गलाः समया द्रव्याणि प्रदेशाश्व पर्यायाश्चैव । स्तोका अनन्ता अनन्ता विशेषाधिकानि द्वावनन्तौ ॥१॥
SARAMA
Jain Educational
For Privale & Personal Use Only
Anelibrary