________________
| व्याख्या-'क्षिप्रं' तत्क्षण एव न शक्नोति' न समर्थो भवति, किं कर्तुम् ?-'एतुं' गन्तुं प्रामुमितियावत् , कम्?'विवेक' द्रव्यतो बहिःसङ्गपरित्यागरूपं भावतस्तु कषायपरिहारात्मकं, न यकृतपरिका झगिति तत्परित्यागं कर्तुमलम् , अत्रोदाहरणं ब्राह्मणी_एगो मरुतो परदेसं गंतूण साहापारतो होऊण सविसयमागतो, तस्सऽन्नेण मरुतेण खद्धपलालितोत्तिकाउं दारिका दत्ता, सो य लोए दक्खिणातो लहति, परे विभवे बड्डति तेण तीसे भारियाए सुबहुं अलंकारं कारियं, सा निच्चमंडिया अच्छइ, तेण भण्णइ-एस पचंतगामो, ता तुमं एयाणि आभरणगाणि तिहिपवणीसु आविंधाहि, कहिं चोरा उवगच्छेजा तो सुहं गोविजंति, सा भणइ-अहं ताए वेलाए सिग्धमेव अवणेस्संति । अन्नया तत्थ चोरा पडिया, तमेव णिच्चमंडियागिहं अणुपविट्टा, सा तेहिं सालंकिया गहिया, सा य पणीयभोयणत्ता मंसोवचितपाणिपाया ण सकेइ कडगाईणि अवणेऊ, ततो चोरोहिं तीसे हत्थे छेत्तण अवणीया, गेण्हिउंच निग्गया ॥ एवमन्यो. १ एको ब्राह्मणः परदेशं गत्वा शाखापारगो भूत्वा स्वविषयमागतः, तस्यान्येन ब्राह्मणेन प्रचुरप्रलालित इतिकृत्वा दारिका दत्ता, स च |लोकात् दक्षिणा लभते, अतिशयेन वर्धमाने विभवे तेन तस्या भार्यायाः सुबहवोऽलङ्काराः कारिताः, सा नित्यं मण्डिता तिष्ठति, तेन भण्यते-एष प्रत्यन्तग्रामः, तत्त्वमेतानि आभरणानि तिथिपर्वसु परिधेहि, कदाचिच्चौरा उपगच्छेयुस्तदा सुखं गोप्यन्ते, सा भणति-अहं|| तस्यां वेलायां शीघ्रमेवापनेष्यामीति । अन्यदा तत्र चौराः पतिताः, तदेव नित्यमण्डितागृहमनुप्रविष्टाः, सा तैः सालङ्कारा गृहीता, सा च प्रणीतभोजनत्वात् उपचितमांसपाणिपादा न शक्नोति कटकादीन्यपनेतुं, ततः चौरस्तस्या हस्तौ छित्त्वा अपनीतानि, गृहीत्वा च निर्गताः ।
SACXCCC
Jain Education International
For Privale & Personal use only
Kainelibrary.org