________________
खजनखतत्त्वमालोचयन् प्रव्रज्यां प्रत्यादृतः, तथाऽन्यैरपि विवेकिभिर्यतितव्यं, तथा च वाचकः-"रोगाघ्रातो दुःखाहितस्तथा स्वजनपरिवृतोऽतीव । क्वणति करुणं सवाष्पं रुजं निहन्तुं न शक्तोऽसौ ॥१॥ माता भ्राता भगिनी । भार्या पुत्रस्तथा च मित्राणि । न नन्ति ते यदि रुजं खजनबलं किं वृथा वहसि ? ॥२॥ रोगहरणेऽप्यशक्ताः
युत धर्मस्य ते तु विघ्नकराः । मरणाच न रक्षन्ति खजनपराभ्यां किमभ्यधिकम् ? ॥३॥ तस्मात् खजनस्यार्थे यदिहाकार्य करोषि निर्लज! भोक्तव्यं तस्य फलं परलोकगतेन ते मूढ !॥४॥ तस्मात् स्वजनस्योपरि सङ्गं परिहाय निवृतो भूत्वा । धर्म कुरुष्व यत्नाद्यत्परलोकस्य पथ्यदनम् ॥५॥” इति सूत्रार्थः॥४॥ इत्थं तावत् खकृतकर्मभ्यः वजनान्न मुक्तिरित्युक्तम् , अधुना तु द्रव्यमेव तन्मुक्तये भविष्यतीति कस्यचिदाशयः स्यादत आह
वित्तेण ताणं न लभे पमत्ते, इममि लोए अदुवा परत्थ ।
दीवप्पणटे व अणंतमोहे, नेयाउयं दद्रुमझुमेव ॥ ५॥ ( सूत्रम् ) व्याख्या-वित्तेन' द्रविणेन 'त्राणं' खकृतकर्मणो रक्षणं 'न लभते' न प्राप्नोति इति, कीदृक् ?-'प्रमत्तः' मद्यादिप्रमादवशगः, क्व?-'इमंमि'त्ति अस्मिन्ननुभूयमानतया प्रत्यक्ष एव 'लोके' जन्मनि, 'अदुवे ति अथवा 'परत्रे'ति परभवे, कथं पुनरिहापि जन्मनि न त्राणाय ?, अत्रोच्यते वृद्धसम्प्रदायः
उत्तराध्य-३६
in Education International
For Private & Personal Use Only
www.jainelibrary.org