SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ द्यमानमेव चोत्पन्नं यत उक्तम्- "जम्हा विगच्छमाणं विगय" मित्यादि, तथा चास्य य एवोत्तरभवोत्पादः स एव पूर्वभवपरित्यागः, एवं च यदेवोत्तरभवौदारिकपुद्गलानां सङ्घातस्तदैव पूर्वभवौदारिकपुद्गलानां शाट इति परभवप्रथम - | समय एवैतदभिप्रायेण शाटः, व्यवहारनयमतेन त्वन्य एवोत्तरस्योत्पादः अन्य एव च पूर्वस्य विनाशो विनष्टस्यैव |च विनष्टता उत्पन्नस्यैव चोत्पन्नता, ततो न य एवोत्तरभवोत्पादः स एव पूर्वभवपरित्यागः, एवं चान्यदेवोत्तरभवौ| दारिकपुद्गलानां सङ्घातोऽन्यदैव च पूर्वभवौदारिकपुद्गलानां शाटः, ततो नास्य परभवप्रथमसमय एव सङ्घातशाटी, किन्तु पूर्वभवान्त्यसमय एव शाटः उत्तरभवाद्यसमय एव सङ्घातः, तथा च निश्चयव्यवहारनयात्मकत्वाजिनम| तस्य यदाऽसौ क्षुल्लकभव उत्पद्यते तदा व्यवहारनयस्याश्रयणात्पूर्वभवान्त्यसमय एव शाटो विवक्ष्यते, यदा तु तत उद्वर्त्तते तदा निश्चयनयाङ्गीकरणात्परभवप्रथमसमय एवोत्पाद इति परिपूर्णमेव क्षुल्लकभवग्रहणमौदारिकसर्वशाटयोर्जघन्यमन्तरमिति न कश्चिद्विरोधः । ईदाणिं विउचियस्स — वेउविय संघातो समतो सो पुण विउच्चणादीतो । ओरालियाण अहवा देवादीणाइगहणंमि ॥ १ ॥ उक्कोसो समयदुगं जो समय विउच्छिउं मतो वितिए । समए सुरेसु १ इदानीं वैक्रियस्य- वैक्रियसंघातः समयः स पुनर्विकुर्वणादेः । औदारिकाणामथवा देवादीनामादिग्रहणे ॥ १ ॥ उत्कृष्टः समयद्विकं यः समयं विकुर्व्य मृतो द्वितीये । समये सुरेषु Jain Educationlational For Private & Personal Use Only Aainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy