________________
8- 09
G
उत्तराध्य. खंधेसु अ दुपएसाइएसु अब्भेसु अब्भरुक्खेसुं। णिप्फण्णगाणि दवाणि जाणि तंवीससाकरणं ॥१८७॥ असंस्कृता. बृहद्वृत्तिः
व्याख्या-'स्कन्धेषु च' परमाणुसञ्चयात्मकेषु द्विप्रदेशादिकेषु आदिशब्दास्त्रिप्रदेशादिपरिग्रहः, परमाणवश्चा-४ तिनेनैवोपलक्षिताः, 'अभ्रेषु' प्रतीतेषु 'अभ्रवृक्षेषु' तद्विशेषेष्वेव वृक्षाकारेषु, उपलक्षणं चैतदिन्द्रधनुरादीनां, तथा च । ॥१९६॥
सम्प्रदायः-चक्खुप्फासियं जं चक्खुसा दीसइ, तं पुण अब्भा अब्भरुक्खा एवमाइ' । दृश्यते च 'अब्भेसु विजमादीसुत्ति, तत्र च यदि विद्युत्प्रतीतैव गृह्यते तदा तस्याः सजीवत्वात्तच्छरीरस्य चौदारिकशरीरकरणाख्यप्रयोगकरणत्वप्रसक्तिः, अथ विद्योतन्त इति विद्युन्ति तानि आदिर्येषां तानि विद्युदादीन्यभ्राणि तेष्वित्यभ्रविशेषणतया व्याख्यायते, आदिशब्दाच धूम्रादिपरिग्रह इति, तदा नोक्तदोषः, परमप्रातीतिक, सामायिकनियुक्तौ चाभ्रादीन्येव
विश्रसाकरणमुक्तं, तद्यथा-"चक्खुसमचक्खुसंपि य सादियं रूविवीससाकरणं । अब्भाणुप्पभितीणं बहुहा संघायइभेयकयं ॥१॥"ति, नेह तत्त्वनिश्चयः, तेषु द्विप्रदेशादिष्वभ्रादिषु वा किमित्याह-निष्पन्नान्येव निष्पन्नकानि, जीवव्यापार विनैव भेदसङ्घाताभ्यां लब्धसत्ताकानि द्रव्याणि तद्विश्रसाकरणं सादि, चाक्षुषमचाक्षुषं वेति प्रक्रमः, द्विप्रदेशादिकरणानि हि सङ्घाताद् भेदात् सङ्घातभेदाभ्यां च विनापि जीवप्रयोगं निष्पद्यन्ते, निष्पन्नान्यपि च न चक्षुषा ॥१९६॥ | १ चक्षुःस्पर्श यच्चक्षुषा दृश्यते, तत्पुनरभ्राणि अभ्रवृक्षा एवमाद्याः । २ चाक्षुषमचाक्षुषमपि च सादिकं रूपिविश्रसाकरणम् । अभ्राणुप्रभृतीनां बहुधा संघातभेदकृतम् ॥ १ ॥
ROINEESHOROSAROSAROKAR
Jain Education-MIRE
For Privale & Personal use only
mudrainelibrary.org