________________
Jain Education
;
'एगंमास परियाए समणे बंतरियाणं तेयल्लेसं वीईवयति' इत्याद्यागमेनोक्तं 'नैवास्ति राजराजस्य तत्सुख' मित्यादिना च वाचकवचनेनानूदितं 'याति' प्राप्नोति, क इव ? - ' घयसित्तेव' त्ति इवस्य भिन्नक्रमत्वात् घृतेन सिक्तो घृतसिक्तः पुनातीति पावक:- अग्निः, लोकप्रसिद्ध्या, समयप्रसिद्ध्या तु पापहेतुत्वात्पापकः तद्वत् स च न तथा तृणादिभिदीप्यते यथा घृतेनेत्यस्य घृतसिक्तस्य निर्वृतिरनुगीयते, ततो विशेषेणास्य दृष्टान्तत्वेनाभिधानमिति भावनीयं, यद्वानिर्वाणमिति जीवन्मुक्तिं याति - 'निर्जितमदमदनानां वाक्काय मनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् ॥ १ ॥' इति वचनात् कथंभूतः सन् ? - घृतसिक्तपावक इव - तपस्तेजसा ज्वलितत्वेन घृततपिताशिरमान इति सूत्रार्थः ॥ १२ ॥ पठन्ति च नागार्जुनीयाः - "चउद्धा संपयं लधुं, इहेव ताव भायते । तेयते तेजसंपन्ने, घयसित्तेव पावए ॥१॥ त्ति" तत्र चतुर्धा - चतुष्प्रकारां संपदां - सम्पत्तिं प्रक्रमान्मनुष्यत्वादिविषयां लब्ध्वा इहैव लोके तावद्, आस्तां परत्र, 'भ्राजते' ज्ञानश्रिया शोभते, 'तेजते' दीप्यते तेजसा - अर्थात्तपोजनितेन सम्पन्नो- युक्तस्तेजः सम्पन्नः, शेषं प्राग्वदिति सूत्रार्थः ॥ १२ ॥ इत्थमामुष्मिक मैहिकं च फलमुपदार्थ शिष्योपदेशमाह - | विगिंच कम्मुणो हेउं, जसं संचिणु खंतिए । पाढवं सरीरं हिच्चा, उड्डुं पक्कमती दिसं ॥ १३ ॥ (सूत्रम् ) व्याख्या–‘विगिञ्च’त्ति वेविग्धि पृथक् कुरु 'कर्म्मणः' प्रस्तावान्मानुषत्वादिविबन्धकस्य ' हेतुम्' उपादानका १ एकमासपर्यायः श्रमणो व्यन्तराणां तेजोलेश्यां व्यतित्रजति ।
For Private & Personal Use Only
inelibrary.org