________________
उत्तराध्य. * माणुसत्तमि आयाओ, जो धम्म सोच्च सदहे । तवस्सी वीरियं लद्धं, संवुडो निद्धणे रयं ॥११॥(सूत्रम्)/ चतुरङ्गीया
ध्ययनम् बृहद्वृत्तिः 1 व्याख्या-'मानुषत्वे' मनुजत्वे 'आयातः' आगतः, किमुक्तं भवति ?-मानुषत्वं प्राप्तो, य इत्यनिर्दिष्टखरूपो
य एव कश्चिद्धम्म श्रुत्वा 'सद्दहे'त्ति श्रद्धत्ते-रोचयते 'तपखी' निदानादिविरहितया प्रशस्यतपोन्वितः, कथं ?॥१८५॥
'वीर्य' संयमोद्योगं लब्ध्वा 'संवृतः' स्थगितसमस्ताश्रवः, स किमित्याह-णिटुणे'त्ति निर्धनोति-नितरामपनयति रज्यते अनेन खच्छस्फटिकवच्छुद्धखभावोऽप्यात्माऽन्यथात्वमापाद्यत इति रजः-कर्म बध्यमानकं वद्धं च, तदपनयनाच मुक्तिं प्राप्नोतीति भावः, उभयत्र लिप्स्यमानसिद्धौ चे (पा. ३-३-७) ति लटू, इह च श्रद्धानेन सम्यक्त्वमुक्तं,
तेन च ज्ञानमाक्षिप्तं,प्रदीपप्रकाशयोरिव युगपदुत्पादात्तयोः, तथा च 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' (तत्त्वा० है अ. १-सू. १ ) इति न विरुध्यत इति सूत्रार्थः ॥ ११ ॥ इत्थमामुष्मिकं मुक्तिफलमुक्तम् , इदानीमिहैव फलमाह
सोही उजुभूयस्स, धम्मो सुद्धस्स चिट्ठति । णिवाणं परमं जाइ, घयसित्तेव पावए ॥ १२ ॥ (सूत्रम्) __ व्याख्या-'शुद्धिः' कपायकालुष्यापगमो, भवतीति गम्यते, 'ऋजुभूतस्य' चतुरङ्गप्राप्त्या मुक्तिं प्रति प्रगुणीभूतस्य, ॥१८५॥ तथा च 'धर्मः' क्षान्त्यादिः 'शुद्धस्य' शुद्धिप्राप्तस्य तिष्ठति' अविचलिततयाऽऽस्ते इति, अशुद्धस्य तु कदाचित्कपायोदयात्तद्विचलनमपि स्यादित्याशयः, तदवस्थितौ च 'निर्वाणं' नितिनिर्वाणं स्वास्थ्यमित्यर्थः 'परमं प्रकृष्टम्
SCREELSCREESASEASESEX
Sain Education International
For Privale & Personal use only
www.jainelibrary.org