________________
उत्तराध्य.
चतुरङ्गीया ध्ययनम्
बृहद्वृत्तिः
॥१८॥
तामपि भवाभिनन्दिना प्राणिनामिति, कथमन्यथा न तत्प्रतिघातार्थमुद्यच्छेयुरिति भावः । पाठान्तरं वा-'सबह |इव खत्तिय'त्ति इवो भिन्नक्रमः, ततः सर्वैः शयनादिभिरर्थः-प्रयोजनमस्येति सर्वार्थः क्षत्रियः, स चार्थाष्टराज्यः तद्वत् , ततो यथाऽसौ न निर्विद्यते, अर्थात्सर्वार्थान् प्रार्थयमानः, तथैतेऽपि प्राणिनः सुखान्यभिलषन्तोऽनिर्विद्यमानाश्च, कर्मभिः-ज्ञानावरणीयादिभिः सङ्गाः-सम्बन्धाः कर्मसङ्गास्तैः, यद्वा कर्माणि-उक्तरूपाणि तत्तक्रियाविशेपात्मकानि वा, तथा सज्यन्तेऽमीषु जन्तव इति सङ्गाः-शब्दादयोऽभिष्वङ्गविषयाः, ततश्च कर्माणि च सङ्गाश्च कर्मसङ्गाः तैः सम् इति भृशं मूढाः-वैचित्त्यमुपागताः सम्मूढाः, 'दुःखम्' असातात्मकं जातमेषामिति दुखिताः, कदाचित्तन्मानसमेव स्यादत आह-'बहुवेदनाः' बहयो वेदनाः-शरीरव्यथा येषां ते तथा, मनुष्याणामिमा मानुष्या न तथाऽमानुष्याः, तासु-नरकतियेगाभियोग्यादिदेवदुर्गतिसम्बन्धिनीषु 'योनिषु' अभिहितरूपासु 'विनिहन्यन्ते' विशेषेण निपात्यन्ते, अर्थात्कर्मभिः, कोऽर्थः ?-न तत उत्तारं लभन्ते 'प्राणिनः' जन्तवः, तदनेन सत्यप्यावर्ते निर्वेदाभावात् कर्मसंगसंमूढाः दुःखहेतुनरकादिगत्यनुत्तरणेन प्राणिनो मनुजत्वं न लभन्त इत्युक्तमिति सूत्रद्वयार्थः ॥५-६॥ कथं तर्हि तदवाप्तिः ? इत्याहकम्माणं तु पहाणाए, आणुपुब्बी कयाइ उ। जीवा सोहिमणुप्पत्ता, आययंति मणुस्सयं ॥७॥(सूत्रम्) व्याख्या-कर्मणां' मनुजगतिविबन्धकानाम् 'तुः' पूर्वस्माद्विशेषद्योतकः 'पहाणाए'त्ति प्रकृष्टं हानम्-अपगमः
॥१८॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org