________________
जात्मप्रदेशोऽवगाढः तेन तत्रैवावगाढं कर्म गृह्यते इत्युक्तम् , अत एवाह शिवशर्माचार्यः-“एगपएसोगाढं सवपएसेहि कम्मुणो जोगं । गेण्हइ जहुत्तहेऊ साईयमणाइयं वावि ॥ १॥" अथौपचारिकं यथा हि कक्षुकी कञ्चकेनेवावष्टब्धश्चावृतश्च, एवं जीवप्रदेशा अपि कर्मप्रदेशैरिति मुख्यपरिवेष्टनाभावेऽपि तेषां तत्परिवेष्टनमुच्यते, तर्हि स्फुटैवास्मदिष्टबन्धसिद्धिः, अस्माकमप्यनन्तकर्माणुवर्गणाभिरात्मप्रदेशानामुक्तरूपपरिवेष्टनस्यैव बन्धत्वेनेष्टत्वात् , ६ आगमश्चात्र-“एगेमेगे आयपएसे अणंताणंताहिं कम्मवग्गूहिं आवेढियपरिवेढियत्ति,' ततश्च विपर्ययसाधनाद्वि
रुद्धो हेतुः, सकलजीवप्रदेशप्रचयपरिवेष्टनेनेत्यस्मिन्नपि पक्षे भिन्नदेशकर्मग्रहणेन तथैव सिद्धान्तविरोधः, तथा तत्र बहिः प्रदेशबन्ध एव कर्मणः सम्भवति, ततश्च मलस्येव न तस्य भवान्तरानुवृत्तिः, एवं च पुनर्भवाभावः, सिद्धानां वा पुनर्भवाऽऽपत्तिः, न च मलस्य शरीरेण स्पृष्टतया दृष्टान्तवैषम्यं, शरीरात्मप्रदेशानामन्योऽन्यमविभागेनावस्थानाद् , अन्यथा हि मृणालस्पर्शाद्यनुभवाभावप्रसङ्गः, किञ्च-इयं देहान्तः सातादिवेदना सनिवन्धना निर्निबन्धना वा ?, निर्निबन्धना चेकिं न सिद्धानामपि ?, सनिबन्धनत्वे च किं पयःपानादिदृष्टहेतुकैव यद्वा कर्मनिबन्धनाऽपि ?, यदाऽऽद्यः पक्षस्तर्हि बहिर्वेदनापि दृष्टा वाह्यहेतुकैवेति किं कर्मकल्पनया ?, अथ कर्महेतुकाऽपि तर्हि
१ एकप्रदेशावगाढं सर्वप्रदेशैः कर्मणो योग्यम् । गृहाति यथोक्तहेतोः सादिकमनादिकं वाऽपि ॥१॥२ एकैक आत्मप्रदेशोऽन्तानन्ताभिः कर्मवर्गणाभिरावेष्टितपरिवेष्टित इति ॥
उत्तराध्य.३० Sain Education International
For Privale & Personal use only
Sainelibrary.org