SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ तर्हि प्रत्यक्षनिराकृतः पक्षो, द्रव्यरूपेणावस्थितस्यैव वस्तुनो दर्शनात्, अन्यथा द्वितीयादिसमयेषु वस्तुनोऽभावप्रसङ्गः, चतुरङ्गीया उत्तराध्य. वस्त्वन्तरोत्पत्तरदोष इति चेत् किं न तद्भेदेन प्रतिभाति ?, अथ माय गोलकवत्सादृश्यात् , तन्न, प्रत्यक्षेणैकत्वग्रहा ध्ययनम् बृहद्वृत्तिः देव भेदाप्रतिभासात्, अथ भ्रान्तमेवैकत्वग्राहि प्रत्यक्षम्, एवं च सति चक्रकाख्यो दोषः, एकत्वग्राहिणो हि प्रत्यक्षस्य ॥१६३॥ भ्रान्तत्वं प्रकृतानुमानप्रामाण्ये, तच सादृश्याद्भेदाप्रतिभासे, स चैकत्वग्राहिणः प्रत्यक्षस्य भ्रान्तत्वे, तदपि प्रकृतानुमानप्रामाण्य इति तदेवावर्तते, ऐहिकामुष्मिकव्यवहारविलुतिश्च सर्वथा नाशे, तथा चाह-"तित्ती समो किलामो सारिक्ख विपक्खपचयाईणि । अज्झयणं झाणं भावणा य का सवणासम्मि? ॥१॥ अन्नन्नो पइगासं भोत्ता अन्नोन्नसोदावि का तित्ती? । गन्तादओवि एवं इय संववहारवोच्छित्ती॥२॥" अथ सन्तानाश्रयो व्यवहारः,सन्तानोऽपि सन्ताजानिभ्यः किं भिन्नो न वा?, यदि भिन्नो वस्तुसन्न वा ?, यदि न वस्तुसन् , किं तेन शशविषाणेनेव कल्पितेन ?, वस्तु सत्त्वेऽपि क्षणिकोऽक्षणिको वा ?, यद्यक्षणिकस्तेनैव प्रकृतानुमानव्यभिचारः, क्षणिकत्वे च तदवस्थैव व्यवहारविलुप्तिः, अथाभिन्नः, तथाहि-सदृशापरापरक्षणप्रवन्धः सन्तानः, स च सन्तानिन एव, तदसत् , यतः सर्वथोच्छेदे प्राग्भावित्वमेव कारणस्य कारणत्वं, तच विसदृशक्षणापेक्षयाऽपि समानमिति कथं सदृशक्षणस्यैवोत्पत्तिः? येन तत्प्रबन्धः १ तृप्तिः श्रमः लमः सादृश्यं विपक्षः प्रत्ययादीनि । अध्ययनं ध्यानं भावना च का सर्वनाशे ? ॥१॥ अन्योऽन्यः प्रतिप्रासं भोक्ताऽन्यो|ऽन्यः का तृप्तिः ? । गादयोऽप्येवमिति संव्यवहारव्युच्छित्तिः ॥ २ ॥ २ अन्ते न सोऽवि (वि०) JainEducation htional For Private & Personal Use Only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy