SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ६ सिद्धिं गयस्स, तो चउत्थो उप्पण्णो, मिहिलानयरीए लच्छीगिहं चेइयं, महागिरी आयरिया, तत्थ तेर्सि सीसो कोडिन्नो, तस्सवि आसमित्तो सीसो, सो पुण अणुप्पवाए पुवे उणियवत्थु, तत्थ छिण्णछेयणयवत्तवयाए आलावतो जहा-सवे पडुप्पन्नसमयणेरइया वोच्छिजिस्संति, एवं जाव वेमाणियत्ति,' एवं तस्स तंमि वितिगिच्छा जाया-जहा सत्वे संजया वोच्छिजिस्संति, एवं सवेसिं समुच्छेदो भविस्सइत्ति, ताहे तस्स तत्थ थिरं चित्तं जायं, भण्यते चाचार्यैर्यथा-भद्र ! तवायमाशयः-अस्ति कारणमुत्पादे, विनाशे नास्ति कारणम् । उत्पत्तिमन्तः सर्वेऽपि, विनाशे नियतास्ततः॥१॥प्रयोगश्च-ये यद्भावं प्रत्यनपेक्षास्ते तद्भावनियताः, यथा अन्त्या कारणसामग्री खकार्यजनने, अनपेक्षाश्च विनाशं प्रति भावाः, अत्र च विनाशनैयत्यं भावानां किं वैश्रसिकं विनाशमाश्रित्य : साध्यते प्रायोगिकं वा ?, यदि वैश्रसिकं किं सर्वथा कथञ्चिद्वा?, कथञ्चित्पक्षे सिद्धसाधनं, सरस्तरङ्गवत्सततमुदयव्ययवत्त्वेन केषाञ्चित्पर्यायाणां तद्रपेण वस्तष वैश्रसिकविनाशनयत्यस्य सिद्धत्वाद्, अथ सर्वथा विनाशः साध्यते १ सिद्धिगतात् , तदा चतुर्थ उत्पन्नः, मिथिलानगर्या लक्ष्मीगृहं चैत्यं, महागिरय आचार्याः, तत्र तेषां शिष्यः कोण्डिन्यः, तस्याप्यश्वमित्रः शिष्यः, स पुनरनुप्रवादे पूर्व निपुणं वस्तु, तत्र छिन्नच्छेदनकवक्तव्यताया आलापको यथा-सर्वे प्रत्युत्पन्नसमयनैरयिका व्युच्छेत्स्यन्ति, एवं यावद्वैमानिका इति, एवं तस्य तस्मिन् विचिकित्सा जाता-यथा सर्वे संयता व्युच्छेत्स्यन्ति, एवं सर्वेषां समुच्छेदो भविष्यतीति, तदा तस्य तत्र स्थिरं चित्तं जातं, उत्तराध्य.२८ Jain EducatiaNP For Privale & Personal use only Pljainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy