________________
उत्तराध्य.
बृहद्धृत्तिः
॥१५५॥
CSCANCICILLAGA.COCCC
कृतमेव, कृतं तु स्याक्रियमाणं क्रियावेशसमये, क्रियोपरमे पुनरक्रियमाणमिति उक्तं, च-तेणेह कजमाणं नियमेण चतुरङ्गीया कयं कयं तु भयणिजं। किञ्चिदिह कजमाणं उवरयकिरियं व होजाहि ॥१॥ किञ्च भवतो मतिः-क्रिया- ध्ययनम् न्त्यसमय एवाभिमतकार्यभवनं, तत्रापि प्रथमसमयादारभ्य कार्यस्य कियत्यपि निष्पत्तिरेष्टव्या, अन्यथा कथमकस्मादन्त्यसमये सा भवेद् ?, उक्तं च- आद्यतन्तुप्रवेशे च, नोतं किञ्चिद्यदा पटे । अन्त्यतन्तुप्रवेशे च, नोतं स्यान्न पटोदयः॥१॥ तस्मादायद्वितीयाऽऽदितन्तुयोगात्प्रतिक्षणम् । किञ्चित्किञ्चिदुतं तस्य, यदुतं तदुतं ननु ॥२॥” इह प्रयोगः-यद्यस्याः क्रियायाः आद्यसमये न भवति तत्तस्या अन्त्यसमयेऽपि न भावि, यथा घटक्रियादिसमयेऽभवन्पटः, न भवति च कृतक्रियमाणयोर्भेदे क्रियादिसमये कार्यम् , अन्यथा घटान्त्यसमयेऽपि पटोत्पत्तिः स्यात् , एवं च-'यथा वृक्षो धवश्चेति, न विरुद्धं मिथो द्वयम् । क्रियमाणं कृतं चेति, न विरुद्धं तथोभयम् ॥१॥ प्रयोगश्च-यद्येनाविनाभूतं न तत्तत एकान्तेन भिद्यते, यथा वृक्षत्वाद्धवत्वं, कृतत्वाविनाभूतं च क्रियमाणत्वमिति । सकललोकप्रसिद्धत्वाच घटपटयोः तदाश्रयेणैवमुक्तं संस्तारकादावपि योज्यं, तत् प्रतिपद्यख भगवन् ! 'चलमाणे चलिए' इत्यादि तीर्थकृद्धचोऽत्यन्तमवितथमिति । स चैवमुच्यमानोऽपि न प्रतिपन्नवान् , ततश्च-16 ॥१५५||
१ तेनेह क्रियमाणं नियमेन कृतं कृतं तु भजनीयम् । किञ्चिदिह क्रियमाणमुपरतक्रियं वा भवेत् ॥ १॥
Jain Educati
For Privale & Personal use only
bor.jainelibrary.org