SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ CRE उत्तराध्य. बृहद्वृत्तिः ॥१५४॥ तथाहि-कृतक्रियमाणके किमेकान्तेन निश्चितभेदे ? अथ कथञ्चिद् ?, यद्येकान्तेन तत्किं तदैक्ये सतोऽपि करणप्र- चतुरङ्गीया सङ्गतः १ उत क्रियानुपरमप्राप्ते २ राहोखितू प्रथमादिसमयेष्वपि कार्योपलम्भप्रसक्ते ३ रथ क्रियावैफल्याऽऽप- ध्ययनम् तितो ४ दीर्घक्रियाकालदर्शनानुपपत्तेर्वा ५१, तत्र न तावत्सतोऽपि करणप्रसङ्गत इति युक्तम् , असत्करणे हि खपुष्पादेरेव करणमापद्यत इति कथञ्चित्सत एव करणमस्माभिरभ्युपगतं, न चाभ्युपगतार्थस्य प्रसअनं युज्यते १, नापि क्रियानुपरमप्रासः, यत इह क्रिया किमेकविषया भिन्नविषया वा?, यद्यकविषया न कश्चिद्दोषः, तत्र हि यदि कृतं क्रियमाणमुच्यते तदा तन्मतेन निष्पन्नमेव कृतमिति तस्यापि क्रियमाणतया क्रियानुपरमप्राप्तिलक्षणो दोषः | स्यात् , न तु क्रियमाणं कृतमित्युक्तो, तत्र क्रियाऽऽवेशसमय एव कृतत्वाभिधानात् , उक्तं हि-"क्रियाकालनिष्ठाकालयोरक्य"मिति, अथैवमपि कृतक्रियमाणयोरक्ये कृतस्य सत्त्वात् सतोऽपि करणे तदवस्थः प्रसङ्गः, तदसत् , पूर्व हि लब्धसत्ताकस्य क्रियायामयं प्रसङ्गः स्यात् , न तु क्रियासमकालसत्तावाप्तौ, अथ भिन्नविषया क्रिया तदा सिद्धसाधनं, प्रतिसमयमन्यान्यकारणतया वस्तुनोऽभ्युपगमेन भिन्नविषयक्रियानुपरमस्यास्माकं सिद्धत्वात् २, अथ। प्रथमादिसमयेष्वपि कार्योपलम्भप्रसक्तेरिति पक्षः, क्रियमाणस्य हि कृतत्वे प्रथमादिसमयेष्वपि सत्त्वादुपलम्भः|NIR१५॥ प्रसज्यत इति, तदपि न, तदा हि शिवकादीनामेव क्रियमाणता, ते चोपलभ्यन्ते एव, उक्तं च-"अन्नारम्भे अन्नं १ अन्यारम्भेऽन्यत् कथं दृश्यतां यथा घटः पटारम्भे ? । शिवकादयो न कुम्भः कथं दृश्यतां स तदद्धायाम् ॥ १॥ JainEducafied . For Privale & Personal Use Only Ranetbrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy