________________
बहुरय जमालिपभवा जीवपएसा य तीसगुत्ताओ।अवत्ताऽऽसाढाओ सामुच्छेयाऽऽसमित्ताओ ॥१६५॥ गंगाए दोकिरिया छलुगा तेरासिआण उप्पत्ती । थेरा य गुट्ठमाहिल पुट्ठमबद्धं परूविति ॥ १६६ ॥
व्याख्या-'बहुरताः' उक्तरूपाः, जमालेः प्रभवः-एतत्तीर्थापेक्षया प्रथमतः उपलब्धिरेषां, न पुनः सर्वथोत्पत्तिरेव, प्रागप्येवंविधाभिधायिसम्भवात् , ते अमी जमालिप्रभवाः, 'जीवपएसा य' त्ति प्रस्तावात्प्रदेश इत्यन्त्यप्रदेशो जीवो येषां ते प्रदेशजीवाः, प्राकृतत्वाच्च व्यत्ययः, ते च तिष्यगुप्तात् , 'अव्यक्ताः' अव्यक्तवादिनः आषाढात् , सामुच्छेदा अश्वमित्रात् , 'गङ्गात्' इति गङ्गाचार्यात् , द्वे क्रिये वदन्ति द्वेक्रियाः, 'छलुग' त्ति षट्पदार्थप्रणयनादुलूक-2 गोत्रत्वाच षडुलूकस्तस्मात् , त्रिभी राशिभिर्दीव्यन्ति-जिगीषन्तीति त्रैराशिकास्तेषामुत्पत्तिः, “स्थविराश्च' स्थिरीकरणकारिणः 'गोठ्ठामाहिल'त्ति गोष्ठमाहिलाः 'स्पृष्टम्' कञ्चुकवत् छुसम् 'अबद्धम्न क्षीरनीरवदन्योऽन्यानुगतं, कर्मेति गम्यते, 'परूपयन्ति' प्रज्ञापयन्ति, तत्कालापेक्षया लट्, बहुवचनं च पूज्यत्वात् , तच स्थविरत्वं च पूर्वपर्यायापेक्षया, अनेन च गोष्ठमाहिलादबद्धिकानामुत्पत्तिरित्युक्तं भवति इति गाथाद्वयार्थः ॥ १६५-१६६ ॥ यथा| बहुरता जमालिप्रभवाः तथा चाहजिट्टा सुदंसण जमालि अणुज सावत्थि तिंदुगुजाणे।पंच सया य सहस्सं ढंकेण जमालि मुत्तूणं ॥१६॥ व्याख्या-अक्षरार्थः सुगमः, नवरम् , 'अणुज' त्ति अनवद्याङ्गी ॥१६७॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, सचायम्
Jain Educat
i onal
For Privale & Personal use only
S
inelibrary.org