________________
उत्तराध्य. बृहद्वृत्तिः
चतुरङ्गीया ध्ययनम्
॥१५२॥
बहुरयपएसअवत्तसमुच्छ दुगतिगअबद्धिगा चेव । एएसिं निग्गमणं वुच्छामि अहाणुपुबीए ॥१६४॥
व्याख्या-'व्याख्यानतो विशेषप्रतिपत्तिः' इति न्यायात् बहुषु-क्रियानिष्पत्तिविषयसमयेषु रताः, कोऽर्थः ?बहुषु एव समयेषु क्रियानिष्पत्तिरित्यसद्भावं प्रतिपन्नाः १, 'पएसि' ति सूचकत्वादस्य अन्त्यप्रदेशजीववादिनः अन्त्य एव प्रदेशो जीव इत्यभ्युपगताः २, अव्यक्ताः-'सत्या सत्यभामे तिवत् अव्यक्तवादिनः, न अत्र व्यक्त्या यतिग्यमयतिर्वा इत्यादिरूपतया वस्तु विज्ञातुं शक्यं, ततः सर्वमव्यक्तमेवेति प्रतिज्ञावन्तः ३, 'समुच्छ' त्ति सूत्रत्वात् सामुच्छेदाः, तत्र समिति-सामस्त्येन निरन्वयात् उदिति-ऊर्ध्वं क्षणादुपरि भवनात् छेदो-नाशः समुच्छेदस्तं विदन्ति तत्त्वधिया सामुच्छेदाः, एषां द्वन्द्वे बहुरतप्रदेशाव्यक्तसामुच्छेदाः, द्विकं-क्रियाविषयमेकसमयमनुभूयमानमिह गृह्यते, तत्प्रतिज्ञातारोऽप्युपचारात् द्विकाः, एवं त्रिकं-जीवाजीवनोजीवराशित्रयं तदभ्युपगन्तारोऽपि तथैव त्रिकाः, बद्धं-जीवप्रदेशैरन्योऽन्याविभागेन संपृक्तं न बद्धम्-अवद्धम् , अर्थात्कर्म, तदभ्युपगमविपयमेषामस्तीति अबद्धिकाः, एषां द्वन्द्वे विकत्रिकावद्धिकाः, चः समुच्चये, एवेति पूरणे । अत्र कः कस्य शिष्य इत्याशङ्काऽपोहार्थमेतन्निर्गमाभिधित्सया सम्बन्धमाह-एएसिं' एतेषामनन्तरमुपदर्शितानां, निर्गमनं-यस्य यत उत्पत्तिः तदात्मकं 'वक्ष्यामि' परिभाषिष्ये, 'अर्थ'त्यानन्तर्ये आनुपूर्व्या क्रमेणेति गाथार्थः ॥ १६४ ॥ प्रतिज्ञातमेवाह
॥१५२॥
Jain Education International
For Privale & Personal use only
hjainelibrary.org