SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ OSIGUOSTOSKOSLO HOSISUSTUS नमः श्रुतदेवतायै ॥ उक्तं परिषहाध्ययनं, सम्प्रति चतुरङ्गीयमारभ्यते, अस्य चायममिसम्बन्धः-इहानन्तराध्यजयने परीषहसहनमुक्तं, तच किमालम्बनमुररीकृत्य कर्त्तव्यमिति प्रश्नसम्भवे मानुषत्वादिचतुरङ्गदुर्लभत्वं तदालम्ब नमनेनोच्यते इत्यनेन सम्बन्धेनायातमिदमध्ययनम् , अस्य चत्वार्यनुयोगद्वाराणि व्यावर्णनीयानि तावद्यावन्नामनिपन्नो निक्षेपः, तत्र च चतुरङ्गीयमिति द्विपदं नाम, अतश्चत्वारो निक्षेप्तव्याः अङ्गं च, न चैकं विना चत्वार इत्येक एव तावन्निक्षेपमहतीति मन्वान आह नियुक्तिकृत्णामंठावणादविए माउयपय संगहिक्कए चेव । पजव भावे य तहा सत्तेए इक्कगा हुँति ॥ १४२ ॥ व्याख्या-इहैककशब्दस्यैकत्र निर्दिष्टस्यापि प्रक्रान्तत्वेन सर्वत्र सम्बन्धात्, नामैककः स्थापनैकको द्रव्यैककः, 'मा है उयपय'त्ति सुपो लोपान्मातृकापदैककः सङ्ग्रहैककः, 'चः' समुच्चये, एवेति पूरणे, ‘पजव'त्ति प्राग्वत् पर्यवैककः 'भावे' भावककः, 'चः' पूर्ववत् , तथेति शेषाणामपि निरुपचरितवृत्तितया तुल्यत्वमाह, उपसंहर्तुमाह-'सप्तैते' अनन्तरोक्ता एकका भवन्ति, एतद्व्याख्या च दशवकालिकनियुक्तावेव नियुक्तिकृता कृतेत्यत्रोदासितं, स्थानाशून्यार्थ तु तदुक्तमेव किञ्चिदुच्यते-तत्र नामैकको यस्यैकक इति नाम, स्थापनैककः पुस्तकादिन्यस्त एककाङ्कः, द्रव्यककः सचित्तादिस्त्रिधा-तत्र सचित्त एककः पुरुषादिरर्थः, अचित्तः फलकादिः, मिश्री वस्त्रादिविभूषितः पुरुषादिरेव, मातृकापदैककः 'उप्पण्णे इ वा विगमे इ वा धुवे इ वा' इति, एषां मातृकावत्सकलवाङ्मयमूलतयाऽवस्थिताना-12 SAHARSASSA JainEducation For Private & Personal use only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy