________________
शब्दार्थः 'विहरतो'त्ति निष्प्रतिबन्धत्वेनानियतं विचरतः छादयतीति छद्म-ज्ञानावरणादिकर्म 'न निवर्तते' नापतीति भिक्षुः न चिन्तयेदित्युत्तरेण सम्बन्धः । अज्ञानाभावपक्षे तु समस्तशास्त्रार्थनिष्कनिकपोपलकल्पना(ता)यामपि न । दपाध्मातमानसो भवेत्, किन्तु-'पूर्वपुरुषसिंहानां विज्ञानातिशयसागरानन्त्यम् । श्रुत्वा साम्प्रतपुरुषाः कथं खबुद्धया मदं यान्ति ?, ॥१॥' इति परिभावयन् विगलितावलेपः सन्नेवं भावयेत्-णिरट्टयं सूत्रद्वयम् , अक्षरगमनिका सैव, णवरं 'निरहयंमिऽवि' निरर्थकेऽपि प्रक्रमात् प्रज्ञावलेपे रतो, मैथुनात् सुसंवृतः सन्निरुद्धात्मा सन् योऽहं साक्षात् ' समक्षं नाभिजानामि धर्म कल्याणं पापकं वा, अयमभिप्रायः-'जे एगं जाणति से सवं जाणति (जे सवं जाणति) से एगं जाणति'इत्यागमात् छद्मस्थोऽहमेकमपि धम्म वस्तुखरूपं न तत्त्वतो वेमि, ततः साक्षाद्भावखभावावभासि चेन्न विज्ञानमस्ति किमितोऽपि मुकुलितवस्तुखरूपपरिज्ञानतोऽवलेपेनेति भावः, तथा तपउपधानादिभिरप्युपक्रमणहेतुभिः उपक्रमयितुमशक्ये छद्मनि दारुणे वैरिणि प्रतपति कः किल ममाहङ्कारावसर इति सूत्रद्वयार्थः ॥४२-४३॥ साम्प्रतमावृत्त्या पुनः सूत्रद्वारमङ्गीकृत्य प्रकृतसूत्रोपक्षिप्तमज्ञानसद्भाव उदाहरणमाहपरितंतो वायणाए गंगाकूले पिया असगडाए । संवच्छरेहऽहिज्जइ बारसहि असंखयज्झयणं ॥ १२१ ॥ १ य एकं जानाति स सर्व जानाति यः सर्व जानाति स एक जानाति ।
Jain Education
Bonal
For Privale & Personal use only
inelibrary.org