SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ **%%%% % उक्तम् -- "पलिंमंथ महं वियाणिया, जाविय वंदण पूयणा इहं । सुहुमे सल्ले दुरुद्धरे, इति संखाइ मुणी ण मज्जइ ॥ १॥" न वा तदर्थं छद्म तत्र वा गृद्धिं विधत्ते, अत एवाल्पा - स्तोका धर्मोपकरणप्रातिमात्रविषयत्वेन न तु सत्कारादिकामितथा महती अल्पशब्दस्याभाववादित्वेनाविद्यमाना वा इच्छा - वाञ्छा वा यस्येति अल्पेच्छः, इच्छायाश्च कषायान्त - तत्वेऽपि पुनरल्पत्वाभिधानं बहुतरदोपत्वोपदर्शनार्थम्, अत एव च अज्ञातो जातिश्रुतादिभिः एषति - उच्छति अर्थात् पिण्डादीत्यज्ञातैषी, कुतः पुनरेवम् ?, यतः 'अलोलुपः ' सरसौदनादिषु न लाम्पय्यवान् एवंविधोऽपि सरसाहारभोजिनोऽपरान् वीक्ष्य कदाचिदन्यथा स्यात् अत आह- सरसेषु - रसवत्स्वोदनादिषु पाठान्तरतो - 'रसेषु वा' मधुरादिषु 'नानुगृध्येत् नाभिकाङ्क्षां कुर्वीत, रसगृद्धिवर्जनोपदेशश्च तद्गृद्धित एव बालिशानामभिवादनादिस्पृहासम्भवात् तथा न 'तेभ्यो' रसगृद्धेभ्यः स्पृहयेन्मुनिः, पाठान्तरतश्च नानुतप्येत् तीर्थान्तरीयान्नृपत्यादिभिः सत्क्रियमाणानवेक्ष्य, किमेतत्परित्यागेनाहमत्र प्रत्रजितः ? इति, प्रज्ञा-हेयोपादेयविवेचनात्मिका मतिस्तद्वान्, अनेन सत्कारकारिणि तोषं न्यत्कारकारिणि च द्वेषमकुर्वताऽयं परीषहोऽध्यासितव्य इत्युक्तं भवतीति सूत्रार्थः | ॥ ३९ ॥ अत्र 'अङ्गविद्ये 'ति द्वारमनुसरन् सूत्रोक्तमर्थ व्यतिरेकोदाहरणेन स्पष्टयन्नाहमहुराइ इंद्रदत्तो पुरोहिओ साहुसेवओ सिट्टी । पासायविज्जपाडण पायच्छिज्जेंदकीले य ॥ ११८ ॥ १ विघ्नं महत् विजानीयात् याऽपि च वन्दना पूजनेह । सूक्ष्मं शल्यं दुरुद्धरमिति संख्याय मुनिर्न माद्यति ॥ १ ॥ Jain Education tional For Private & Personal Use Only 64 d - inelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy