________________
व्याख्या- 'अद्यैव' अस्मिन्नेवाहन्यहं 'न लभे' न प्राप्नोमि, 'अपिः' सम्भावने, सम्भाव्यत एतत् 'लाभः' प्राप्तिः 'श्वः' आगामिनि दिने 'स्याद्' भवेत्, उपलक्षणं श्व इत्यन्येद्युरन्यतरेयुर्वा मा वा भूदित्यनास्थामाह, य 'एवम्' उक्तप्रकारेण 'पडिसंविक्खे' त्ति प्रतिसमीक्षतेऽदीनमनाः अलाभमाश्रित्यालोचयति, 'अलाभः' अलाभपरीषहः तं ' न तज्जेयति' नाभिभवति, अन्यथाभूतस्त्वभिभूयत इति भावः ॥ ३१ ॥ अत्र लौकिकमुदाहरणम्
वासुदेववलदेवसचगदारुगा अस्सवहिया अडवीए नग्गोहपायवस्स अहे रत्तिं वासोवगया, जामग्गहणं, दारुग|स्स पढमो जामो, कोहो पिसायरूवं काऊण आगतो, दारुगं भणइ - आहारत्थीऽहं उवागओ, एए सुत्ते भक्खयामि, युद्धं वा देहि, दारुगेण भणियं-वाढं, तेण सह संपलग्गो, दारुंगो य तं पिसायं जहा जहा न सक्केइ हिणिउँ तहा तहा रुस्सति, जहा जहा रुस्सइ तहा तहा सो कोहो वहति, एवं सो दारुगो किच्छपाणो तं जामगं निबाहेइ, पच्छा सच्चगं उट्ठावे, सच्चगोऽवि तहेव पिसाएण किच्छपाणो कतो, ततिए जामे बलदेवं उट्ठवेइ, एवं बलदेवोऽवि
१ वासुदेववलदेवसत्यकदारुका अश्वापहृता अटव्यां न्यग्रोधपादपस्याधो रात्रौ वासमुपागताः, यामग्रहणं, दारुकस्य प्रथमो यामः क्रोधः पिशाचरूपं कृत्वाऽऽगतः, दारुकं भणति -आहारार्थ्यहमुपागतः, एतान् सुप्तान् भक्षयामि, युद्धां वा देहि, दारुकेण भणितं वाढ, तेन सह संलग्नः, दारुकश्च तं पिशाचं यथा यथा न शक्नोति निहन्तुं तथा तथा रुष्यति, यथा यथा रुष्यति तथा तथा सं क्रोधो वर्धते, एवं स दारुकः कृच्छ्रप्राणस्तं यामं निर्वहति, पश्चात्सत्यकमुत्थापयति, सत्यकोऽपि तथैव पिशाचेन कृच्छ्रप्राणः कृतः, तृतीये यामे बलदेवमुत्थापयति, एवं बलदेवोऽपि
Jain Education rational
For Private & Personal Use Only
9.46+
inelibrary.org