SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ अवद्यहेतुत्यागो हि व्रतं, रागद्वेषायेव च तत्त्वतस्तद्धेतू , उक्तनीतितश्च न स्त्रीभ्यः परं तन्मूलमिति तत्प्रत्याख्यानत एव सुकृतत्वं श्रामण्यस्य, यथोक्तनीतितः स्त्रिय एव दुस्त्यजाः, ततस्तत्त्यागे सक्तमेवापरमिति तत्प्रत्याख्यानतः सुकृतत्वं श्रामण्यस्योच्यते, वक्ष्यति हि-"एए उ संगे समइकमित्ता, सुहुत्तरा चेव हवंति सेसा । जहा महासागरमुत्तरित्ता, णई भवे अवि गंगासमाणा ॥१॥” इति सूत्रार्थः ॥ १६ ॥ अतः किं विधेयमित्याहएवमाणाय मेहावी, पंकभूयाउ इत्थीओ। नो ताहिं विणिहणिज्जा, चरे अत्तगवेसए ॥१७॥ (सूत्रम्) | व्याख्या-'एवम्' इत्यनन्तरोक्तेन प्रकारेणात्यन्तासक्तिहेतुत्वलक्षणेन 'आज्ञाय' स्वरूपाभिव्यासा अवगम्य मेधावी' अवधारणशक्तिमान् पङ्कः-कर्दमः तद्भूताः-मुक्तिपथप्रवृत्तानां विवन्धकत्वेन मालिन्यहेतुत्वेन च हातदुपमाः, तुरवधारणार्थः, ततः पङ्कभूता एव स्त्रियः, पठ्यते च-'एवमादाय मेहावी जहा एया लहुस्सग'त्ति NI'एवम्', अनन्तर एव वक्ष्यमाणमर्थम् 'आदाय' बुद्ध्या गृहीत्वा मेधावी, तमेवाह-'यथे'त्युपदर्शने, 'एताः' स्त्रियः |'लहुस्सग'त्ति तुच्छाशयत्वादिना लघ्व्यः, ततः किमित्याह-'नो' नैव 'ताभिः' 'स्त्रीभिः' 'विनिहन्यात्' विशेषेणसंयमजीवितव्यव्यपरोपणात्मकेनातिशयेन च-सामस्त्यतदुच्छेदरूपेणातिपातयेत् , आत्मानमिति गम्यते, कृत्यमाह-2 'चरेत्' धर्मानुष्ठानमासेवेत, आत्मानं गवेषयते-कथं मयाऽऽत्मा भवानिस्तारणीय इत्यन्वेषयते आत्मगवेषकः, १ एतांस्तु सङ्गान् समतिक्रम्य सुखोत्तारा एव भवन्ति शेषाः । यथा महासागरमुत्तीर्य नदी भवेदपि गङ्गासमाना ॥१॥ Jain Educa t ional For Privale & Personal use only mjainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy