________________
उत्तराध्य.
परीषहा
ध्ययनम्
बृहद्वृत्तिः
॥७८॥
SASAMOSAL
स चैतस्य पर्यायात्मकतया प्रतिसमयमन्यान्य एव भवतीति समयमेवैतन्मतेन परीषहो युक्त इति गाथार्थः ॥ ६३॥ 'वर्षाग्रतः त्रयाणां परीपह' इति यदुक्तं, तदेव दृष्टान्तेन दृढयितुमाहकंडू अभत्तच्छंदो अच्छीणं वेयणा तहा कुच्छी। कासं सासं च जरं अहिआसे सत्त वाससए ॥८४॥
व्याख्या-कंडूं' कण्डूतिम्, 'अभक्तच्छन्द' भक्तारुचिरूपम् 'अक्ष्णोः' लोचनयोः, 'वेदनां' दुःखानुभवं, सर्वत्र द्वितीयार्थे प्रथमा, 'तथे ति समुच्चये, 'कुच्छित्ति सुब्ब्यत्ययात् कुक्ष्योर्वेदनां-शूलादिरूपां 'काशं श्वासं च ज्वरं' |त्रयमपि प्रतीतमेव 'अध्यास्त'इति अधिसहते, सप्त वर्षशतानि यावत् । अनेन तु सनत्कुमारचक्रवयुदाहरणं सूचितं, स हि महात्मा। सनत्कुमारचक्रवर्ती शक्रप्रशंसाऽसहनसमायातामरद्वयनिवेदितशरीरविकृतिरुत्पन्नवैराग्यवासनः पटप्रान्तावलमतृणवदखिलमपि राज्यमपहायाभ्युपगतदीक्षःप्रतिक्षणमभिनवाभिनवप्रवर्द्धमानसंवेगो मधुकरवृत्त्यैव यथोपलब्धान्नपानोपरचितप्राणवृत्तिरनन्तरोक्तसप्तोद्दण्डकण्डादिवेदनाविधुरितशरीरोऽपि संयमान्न मनागपि सञ्चचाल, पुनस्तत्सत्त्वपरीक्षणायातभिषग्वेषामरोपदर्शितद्वादशांशुमालिसमाङ्गुल्यवयवश्च तत्पुरतः 'पुट्विंकडाणं कम्माणं वेइत्ता' इत्यादि संवेगोत्पादकमागमवचः प्ररूपयन् खयमागत्य शक्रेणाभिवन्दित उपबृंहितश्चेति गाथार्थः ॥ ८४ ॥ सम्प्रति क परीषह इति क्षेत्रविषयप्रश्नप्रतिवचनमाह१ पूर्व कृतानां कर्मणां वेदयित्वा ।
॥७८ ॥
Jain Educa
t
ional
For Privale & Personal use only
Arajainelibrary.org