________________
Jain Education
“भमराह पंचवरणाइं णिच्छिए जम्मि वा जणवयस्स । अत्थे विनिच्छओ जो विनिच्छियत्थुत्ति सो गेज्झो ॥ १ ॥ बहुयरउत्ति व तं चियं गमेइ संतेऽवि सेसए मुयइ । संववहारपरतया ववहारो लोगमिच्छंतो ॥ २ ॥ त्ति, ततोऽयमाशयः- 'कालो सभाव नियई पुत्रकथं पुरिसकारणेगंता । मिच्छत्तं ते चेव उ समासओ होंति सम्मत्तं ॥ १ ॥' इत्यागमवचनतः सर्वस्यानेककारणत्वेऽपि कर्म्मकृतं लोकवैचित्र्यमिति प्रायः प्रसिद्धेर्यत् कर्म कारयिष्यति तत्करिष्याम इत्युक्तेश्च कर्मैव कारणमित्याह तचाचेतनत्वेनाजीव एवेति । 'जीवदचं ' तुशब्दस्यैव कारार्थत्वात् जीवद्रव्यमेव 'शेषाणाम्' ऋजुसूत्रशब्दसमभिरूढैवम्भूतानां पर्यायनयानां मतेन हेतुरिति गम्यते, अयमर्थः - जीवद्रव्येण परीषह उदीर्यत इत्येष एवैषां भङ्गोऽभिमतः, ते हि पर्यायास्तिकत्वेन परीषद्यमाणमेव परीषहमिच्छन्ति, परीषहणं चोपयोगात्मकम्, उपयोगस्य च जीवखाभाव्यात् जीवद्रव्यमेव सन्निहितमव्यभिचारि च कारणं, तद्विपरीतं तु अजीवद्रव्यं दण्डादीत्यकारणं, जीवद्रव्यमिति तु द्रव्यग्रहणं पर्यायनयस्यापि गुणसंहतिरूपस्य द्रव्यस्येष्टत्वात्, तदुक्तम् - "पर्यायनयोऽपि द्रव्यमिच्छति गुणसन्तानरूप "मिति गाथार्थः ॥ ७१ ॥ सम्प्रति समवतारद्वारमाह
१ भ्रमरादीन् पञ्चवर्णान् निश्चिते (नेच्छति ) यस्मिन् वा जनपदस्य । अर्थे विनिश्चयो यो विनिश्चितार्थ इति स प्राह्यः ॥ १ ॥ बहुतरक इति वा तमेव गमयति सतोऽपि शेषान्मुञ्चति । संव्यवहारपरतया व्यवहारो लोकमिच्छन् ||२|| १ कालः स्वभावो नियतिः पूर्वकृतं पुरुषकारण | मेकान्तात् । मिध्यात्वं त एव समासतो भवति सम्यक्त्वम् ॥ १ ॥
onal
For Private & Personal Use Only
inelibrary.org