________________
उत्तराध्य. बृहद्धृत्तिः
परीषहाध्ययनम्
॥७४॥
KACCUSA
कधा कारणमिच्छन् यदेकेन पुरुषादिना चपेटादिना परीषह उदीयते तदा परीषहवेदनीयकर्मोदयनिमित्तत्वेऽपि तस्य तदविवक्षया जीवेनासौ परीषह उदीरित इति वक्ति १, यदा बहुभिस्तदा जीवैः २, यदा अचेतनेनैकेन दृषदादिना जीवप्रयोगरहितेन तदाऽजीवेन ३, यदा तैरेव बहुभिस्तदा अजीवैः ४, यदैकेन लुब्धकादिना बाणादिनैकेन तदा जीवेनाजीवेन च ५, यदा तेनैकेनैव बहुभिः वाणादिभिस्तदा जीवेनाजीवैश्च ६, यदा बहुभिः पुरुषादिभिरेकं शिलादिकमुत्क्षिप्य क्षिपद्भिस्तदा,जीवैरजीवेन च ७, यदा तु तैरेव मुद्रादीन् बहून् मुञ्चद्भिस्तदा जीवश्चाजीवश्चेति ८ 'सङ्ग्रहे'। सङ्ग्रहनाम्नि नये विचार्यमाणे जीवो 'वा' अथवा नोजीवो हेतुरिति प्रक्रमः, किमुक्तं भवति?-जीवद्रव्येणाजीवद्रव्येण वा परीषह उदीयते, स हि "संगहियपिडियत्थं संगहवयणं समासतो बेंती"ति वचनात् सामान्यग्राहित्वनैकत्वमेवेच्छति न पुनर्द्वित्वबहुत्वे, अस्यापि च शतभेदत्वाद्यदा चिद्रूपतया सर्व गृह्णाति तदा जीवद्रव्येण, यदा त्वचिद्रूपतया तदा अजीवद्रव्येण, 'व्यवहारे' व्यवहारनये 'नोजीव' इति अजीवो हेतुः, कोऽर्थः ?-अजीवद्रव्येण परीषह उदीर्यत इत्येकमेव भङ्गमयमिच्छति, तथाहि-"वच्चंइ विणिच्छियत्थं ववहारो सवदत्वेसुं" इति तल्लक्षणं, तत्र च 'विनिश्चित'मित्यनेकरूपत्वेऽपि वस्तुनः सांव्यवहारिकजनप्रतीतमेव रूपमुच्यते, तद्वाहकोऽयम्, उक्तं च
१ संगृहीतपिण्डितार्थ संग्रहवचनं समासतो ब्रुवते ( आ०नि०)२ ब्रजति विनिश्चितार्थ व्यवहारः सर्वद्रव्येषु ।
*%%%
॥७४ ॥
%
%
%
JainEducation.in
For Private & Personal use only