________________
स्थापकं हेतुमुत्पश्यामः, अथापि स्याद्-असङ्खयेयत्वेऽप्येषां सकलनयसङ्ग्राहिभिर्नयैर्विचारः, ननु तेषामप्यनेकविधत्वात् | पुनरनवस्थैव, तथाहि-पूर्वविद्भिः सकलनयसङ्ग्राहीणि सप्त नयशतानि विहितानि, यत् प्रतिबद्धं सप्तशतारं नयचकाध्ययनमासीत् , तत्सङ्ग्राहिणः पुनादश विध्यादयो, यातिपादकमिदानीमपि नयचक्रमास्ते, तत्सङ्ग्राहिणोऽपि | सप्त नैगमादयो, यावत् तत्सङ्ग्रहेऽपि द्वयमेवेति सङ्घाहिनयानामपि तेषामनेकविधत्वात् पूर्ववदनवस्थैव, अथ संक्षिप्त| रुचित्वादैदंयुगीनजनानामनेकविधत्वेऽपि सङ्घाहिनयानां द्वयेनैव विचारो न शेषैरिति नानवस्था, ननु द्वयमपि द्रव्यपर्यायार्थशब्दव्यवहारनिश्चयज्ञानक्रियादिभेदेनानेकधैवेति तत्रापि स एवानवस्थालक्षणो दोष इति, अत्र प्रतिविधीयते-इहाध्ययने विनयो विचार्यते, स च मुक्तिफलः, ततो यदेवास्य मुक्तिप्राप्तिनिवन्धनं रूपं तदेव विचारणीयं, तच ज्ञानक्रियात्मकमेवेति ज्ञानक्रियानयाभ्यामेव विचारो न पुनरन्यैरिति । तत्र ज्ञाननय आह-ज्ञानमेव मुक्त्यवाप्तिनिवन्धनं, तथा च तल्लक्षणाभिधायिनी नियुक्तिगाथा-"णायंमि गिण्हियचे अगिण्हियचंमि चेव अत्थंमि । जइयत्वमेव इइ जो उवएसो सो णओ नाम ॥१॥" अस्याश्चार्थः-'ज्ञाते' बुद्धे 'गिण्हियवित्ति गृह्यते-उपादीयते कार्यार्थिभिरिति ग्रहीतव्यः, कार्यसाधक इत्युक्तं भवति, उक्तं हि-"गेज्झो सो कज्जसाहतो होइ' तस्मिन् , अग्रहीतव्यः-तद्विपरीतः, स च हेय उपेक्षणीयश्च, उभयोरपि कार्यासाधकत्वात् , तस्मिंश्च, 'चः' समुच्चये, 'एव' इति
१ ग्राह्यः स ( यः) कार्यसाधको भवति ।
Jain Education
For Privale & Personal use only
elelibrary.org