SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ S ACREASE CONSTRAGRESS लनात्मकोऽनेनेति प्रकृताञ्जलिः, प्राकृतत्वाच कृतशब्दस्य परनिपातः, 'पंजलिउड'त्ति पाठे च प्रकृष्ट-भावान्विततयाऽञ्जलिपुटमस्येति प्राअलिपुट इति सूत्रार्थः ॥ २२ ॥ ईदृशस्य शिष्यस्य गुरुणा यत् कृत्यं तदाह___ एवं विणयजुत्तस्स,सुत्तं अत्थं तदुभयं । पुच्छमाणस्स सिस्सस्स, वागरिज जहासुयं ॥२३॥(सूत्रम्) ___ व्याख्या-'एवम्' इत्युक्तप्रकारेण 'विनययुक्तस्य' विनयान्वितस्य 'सूत्र' कालिकोत्कालिकादि 'अर्थ च' तस्यैवाभिधेयं तदुभयं' सूत्रार्थोभयं 'पृच्छतः'ज्ञीप्सतः 'शिष्यस्य' स्वयंदीक्षितस्योपसम्पन्नस्य वा 'व्यागृणीयात्' विविधमभिव्याप्त्याऽभिदध्यात् व्याकुर्याद्वा प्रकटयेत्, यथा-येन प्रकारेण श्रुतम्-आकर्णितं, गुरुभ्य इति गम्यते, न तु खबुद्ध्यैवोत्प्रेक्षितमित्यभिप्रायः, अनेन च-'आयारे सुयविणए विक्खिवणे चेव होइ बोद्धवे । दोसस्स य निग्याए । |विणए चउहेस पडिवत्ती॥१॥" इत्यागमाभिहितचतुर्विधाचार्यविनयान्तर्गतस्य 'सुतं अत्थं च तहा हियकर णिस्सेसयं च वाएइ । एसो चउचिहो खलु सुयविणओ होइ णायचो ॥१॥ सुत्तं गाहेति उजुत्तो अत्थं च सुणा १ आचारे श्रुतविनये विक्षेपणे चैव भवति बोद्धव्यः । दोषस्य च निर्घाते विनये चतुश्रूषा प्रतिपत्तिः॥१॥२ सूत्रमर्थं च तथा हितकर निःशेषं च वाचयति । एष चतुर्विधः खलु श्रुतविनयो भवति ज्ञातव्यः ॥१॥ सूत्रं ग्राह्यत्युद्युक्तोऽर्थं च श्रावयति प्रयत्नेन । यद्यस्य भवति योग्यं परिणाम्यादि (आश्रित्य) तत्तु श्रुतम् ।। २॥ निश्शेषमपरिशेषं यावत्समाप्तं च तावद्वाचयति । एष श्रुतविनयः खलु निर्दिष्ट: पूर्वसूरिभिः ॥३॥ Jain Education on For Privale & Personal use only ainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy