SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरव चूर्णिः । ॥ १७२ ॥ Jain Education Inter कोऽषि न स्यात्ततः - सागारियाइ कहणं अणिच्छ रत्तिं वसहा विचिंति । विक्किन्ने व समंता जं दिट्ठ सढेयरे सुद्धा ॥१३६२ ॥ सागारिकः- शय्यातरः आदिशब्दात् श्राद्धादयस्तेषां कथ्यतेऽस्माकं स्वाध्यायो न शुद्ध्यति, तदनिच्छ्या अन्या वसतिमयते, तदभावे वृषभा रात्रौ त्यजन्ति । अयमभिन्ने विधिः, मिने तु ढङ्कादिभिः समन्ताद्विकीर्णे यद्दष्टमभावेन गवेषयद्भिः तत्सर्वं त्यजन्ति, इतरस्मिन्नदृष्टे तत्रस्थेऽपि शुद्धाः स्वाध्यायं कुर्वन्ति ॥ १३६२ ।। ' बुग्गहे 'त्ति गयं, ' सारीरे 'चि आह सारंपि यदुविहं माणुस तेरिच्छियं समासेणं । तेरिच्छं तत्थ तिहा जलथलखहजं चउद्धा उ ॥ १३६३ ॥ मत्स्यादीनां जलजं, गवादीनां स्थलजं, मयूरादीनां खचरजं, एकैकस्यायं द्रव्यादिकञ्चतुर्द्धा परिहारः ।। १३६३ ॥ पंचिदियाण दबे खेत्ते सट्ठिहत्थ पुग्गलाइन्नं । तिकुरत्थ महंतेगा नगरे बाहिं तु गामस्स ॥ १३६४ ॥ पञ्चेन्द्रियाणां रुधिरादिद्रव्यमस्वाध्यायिक क्षेत्रतः पष्ठिहस्ताभ्यन्तरेऽस्वाध्यायिकं, परतो न स्यात्, अथवा क्षेत्रतः पुग्गलाइनं 'ति पुद्गलं - मांसं तेन सर्वमाकीर्ण-व्याप्तं तत् तिसृभिरन्तरितं शुद्ध्यति, महत्या चैकयापि, अनन्तरितं दूरस्थितमपि न शुद्ध्यति, महारथ्या - राजमार्गः शेषाः कुरथ्याः, एष नगरे विधिः, ग्रामे तु बहिर्ग्रामसीमायां त्यक्ते शुद्ध्यति ।। १३६४ ॥ For Private & Personal Use Only अस्वाध्यायिक निर्युक्तिः नि०गा० १३६२ १३६४ ॥ १७२ ॥ v.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy